________________
श्रुतावतारः।
व्यधिकाशीतिसहस्रैर्युतार्धाष्टमशतैश्च पञ्चाशत् । सहितशतद्वितयेन च वर्षाणां सम्मिते क्रमशः ॥ ३६ ॥ चतुरमलबोधसम्पत्प्रगल्भमतियतिजनरैविच्छिन्नैः। न क्वचिदप्यवच्छेदमापत्तत् श्रुतमुदात्तार्थम् ॥ ३७॥ अजिताद्यास्तीर्थकरा वृषभादिजिनेन्द्रतीर्थकालस्य । अन्तर्वायुष्का जाता इत्यत्र विज्ञेयाः ॥ ३८ ॥ अथ पार्श्वनाथतीर्थस्यान्ते श्रीवर्धमाननामाऽभूत् । प्रियकारिण्यां सिद्धार्थभूपतेरन्त्यतीर्थकरः ॥ ३९ ॥ त्रिंशद्वर्षेषु कुमार एव विगतेष्वसौ प्रवत्राज। द्वादशभिर्वर्षाभिः प्रापद्वै केवलं तपः कुर्वन् ॥ ४०॥ उदिते केवलबोधे धनदः शक्राज्ञया चकार सभाम् । समवसृतिनामधेयां तस्य स्यादखिललोकगुरोः ॥ ४१ ॥ सुरनरमुनिवृन्दारकवृन्दष्वपि समुदितेषु तीर्थकृतः । षट्षष्टिरहानि न निर्जगाम दिव्यध्वनिस्तस्य ॥ ४२ ॥ दिव्यध्वनेरनिर्गमकारणमवगम्य गणधराभावम् । आनेतुमगात्तमतः सुत्रामा गौतमग्रामम् ॥ ४३॥ तत्र स गत्वा ब्राह्मणशालायाभिन्द्रभूतिनामानम् । छात्रशतपश्चकेभ्यो व्याख्यानं विदधतं विप्रम् ॥ ४४॥ गौतमगोत्रं विद्यामदगर्वितमाखिलवेदवेदाङ्ग-। प्रतिबुद्धतत्त्वमवलोक्य कवलिकाछात्रवेषेण ॥४५॥ तयाख्यानं शृण्वन्नेकोद्देशे द्विजन्मशालायाः। स्थित्वा ततो भवद्भिः प्रतिबुद्धं तत्त्वामिति तस्य ॥ ४६॥ छात्रेभ्यः प्रतिपादनसमयेऽसौ नासिकाग्रभङ्गेन । मुहुरप्यरुचिं प्रकटीकुर्वन्नुपलक्षितश्छात्रैः ॥ ४७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org