________________
श्रुतावतारः।
लक्षैस्तथा नवत्या नवभिश्च सहस्रकैः शतैर्नवभिः । शम्भवमुख्यात् श्रुतमापन्नमत्या च पुष्पदन्तान्तात् ॥२४॥ अथ पुष्पदन्ततीर्थे नववारिधिकोटिगणनया कलिते । पल्योपमतुर्याशे शेषे तत् श्रुतमवाप विच्छेदम् ॥ २५ ॥ पल्यचतुर्भागमिते काले तीर्थे ततः समुत्पन्नः । शीतलजिनः स पुनराविष्कृतवाँस्तत् श्रुतविशेषम् ॥२६॥ शीतलतीर्थे सागरशतेन षट्षष्ठिलक्षमितवर्षेः । षडविंशत्या वर्षसहस्रैर्गोनैकवाद्धिकोटिमिते ॥ २७ ॥ पल्यार्धमात्रकाले शेषे तत्पुनरजन्यविच्छिन्नम् । मितवति गतवति काले ततोऽभवत्तीर्थ कुच्छ्रेयान् ॥ २८ ॥ श्रेयस्तीर्थऽपि चतुष्पश्चाशत्सागरोपमप्रमिते । पल्यत्रिचतुर्भागे शेषे तत्पुनरवापान्तम् ॥ २९ ॥ पल्यत्रिचतुर्भागप्रमिते काले गते ततो जातः। श्रीवासुपूज्यभगवान् सोऽप्याविष्कृत्य तन्मुक्तः ॥ ३० ॥ एवं वसुपूज्यात्मजविमलजिनानन्तधर्मतीर्थेषु । त्रिंशन्नवकचतुष्कं त्रिपल्यपादोनितत्रिकैर्वा(नाम् ॥३१॥ प्रमितेषु पल्यपल्यत्रिपादपल्यार्धपल्यपल्यांशे । शेषे शेषं तत् श्रुतमनुक्रमादाप विच्छेदम् ॥ ३२॥ अथ धर्मतीर्थसन्तानान्तरकालस्य सत्यपर्यन्ते। उत्पद्य शान्तिनाथस्तत्प्रकटीकृत्य मुक्तिमगात् ॥ ३३॥ शान्त्यादिपार्श्वपश्चिमतीर्थकराणां च तीर्थसन्ताने । पल्यार्धवर्षकोटीसहस्रोनितपल्यपादाभ्याम् ॥ ३४॥ कोटिसहस्रेण चतुःपञ्चाशद्गुणितशतसहस्रेण । षभिश्च शतसहस्रैर्लक्षाभिः पञ्चभिश्च तथा ॥ ३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org