________________
श्रुतावतारः ।
Jain Education International
तत्राद्ययोर्व्यतीते समये सम्पूर्णयोस्तृतीयायाः । पल्योपमाष्टमांशन्यूनायाः कुलधरा ये स्युः ॥ १२ ॥ तेषामाद्यो नाम्ना प्रतिश्रुतिः सन्मतिर्द्वितीयः स्यात् । क्षेमङ्करस्तृतीयः क्षेमन्धरसञ्ज्ञितस्तुर्यः ॥ १३ ॥ सीमङ्करस्तथाऽन्यः सीमन्धरसाह्वयो विमलवाहः । चक्षुष्माँश्च यशस्वानभिचन्द्रश्चन्द्राभनामा च ॥ १४ ॥ मरुदेवनामधेयः प्रसेनजिन्नाभिराजनामाऽन्त्यः । हामाधिक्काराननुशासति निजतेजसः स्खलितान् ॥ १५ ॥ हाकारं पञ्च ततो हामाकारं च पञ्च पञ्चान्ये | हामाधिक्कारान्कथयन्ति तनोर्दण्डनं भरतः ॥ १६ ॥ रवितारालोकेभ्यस्त्रयो नृणामपनयन्ति भयमाढ्याः । दीपविचोदनमर्यादाऽऽवृतिवाहादिरोहमतः ॥ १७ ॥ कथयन्ति तु चत्वारः सुतेक्षणाद्भीतिमपहरत्यन्यः । नामकृतिं शशधरमभि शिशुकेलिं प्रकुरुतेऽन्यः ॥ १८ ॥ जीवति सुतैः सहान्यो जलतरणं गर्भमलविशुद्धिं च । नालनिकर्तनमपि च त्रयोऽपि परे व्यपदिशन्ति नृणाम् १९ अथ नाभिराजनृपतेर्मरुदेव्यां व्यजनि नन्दनो वृषभः । तीर्थकृतामाद्योऽसौ प्रवर्त्य भरते भृशं तीर्थम् ॥ २० ॥ निर्वाणमवाप ततः पञ्चाशल्लक्षकोटिमितवार्द्धिः । यावदविच्छिन्नतया समागतं तत् श्रुतं सकलम् ॥ २१ ॥ जातस्ततोऽजितजिनः शिष्येभ्यः सोऽपि सम्यगुपदिश्य । तत् श्रुतमखिलं प्रापन्निर्वाणमनुत्तरं तद्वत् ॥ २२ ॥ एवमजितादिचन्द्रप्रभान्ततीर्थे शिनामतिक्रान्ता | सागरकोटीनां त्रिंशक्रमाद्दशभिरथ नवभिः ॥ २३ ॥
७५
For Private & Personal Use Only
www.jainelibrary.org