SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७४ श्रुतावतारः । श्रुतावतारः । Jain Education International - सर्वनाकीन्द्रवन्दितकल्याणपरंपरं देवं । प्रणिपत्य वर्धमानं श्रुतस्य वक्ष्येऽहमवतारम् ॥ १ ॥ यद्यप्यनाद्यनिधनं श्रुतं तथाऽप्यत्र तन्निभेन मया । कालाश्रयेण तस्योत्पत्तिविनाशौ प्रवक्ष्येते ॥ २ ॥ भरतेऽस्मिन्नवसर्पिण्युत्सर्पिण्याह्वयौ प्रवर्त्तते । कालौ सदाऽपि जीवोत्सेधायुर्द्धासवृद्धिकरौ ॥ ३ ॥ एकैकस्य पृथग्दशकोटी कोट्यः प्रमाणमुद्दिष्टम् । वाह्युपमानावेतौ समाश्रितौ भवति कल्प इति ॥ ४ ॥ तत्रावसर्पिणीयं प्रवर्तमाना भवेत्समाऽस्याश्च । कालविभागाः प्रोक्ताः षडेव कालप्रभेदज्ञैः ॥ ५ ॥ सुषमसुषमाह्वयाद्या सुषमाऽन्या सुषमदुःषमेत्यपरा । दुष्षमसुषमान्या दुष्पमाऽतिपूर्वा पराऽस्यैव ॥ ६ ॥ तत्र क्रमाच्चतस्रस्तिस्रो द्वे सागरोपमाख्यानाम् । कोटी कोट्यस्तिसृणामाद्यानां भवति परिमाणम् ॥ ७ ॥ कोटीकोटीवर्षसहस्त्रैरेतैश्चतुर्दशभिरूना । त्रिगुणैरम्भोधीनां परिमाणं भवति तुर्यायाः ॥ ८ ॥ एकोत्तरविंशत्या वर्षसहस्त्रैर्मिता समोपान्त्या । तावद्भिरेव कलिता वर्षसहस्त्रैः समा षष्ठी ॥ ९ ॥ धनुषां षट्चत्वारि द्वे च सहस्रे शतानि पञ्चैव । हस्ताः सप्तारत्निः षट्कालिकमानतोत्सेधः ॥ १० ॥ पल्यानि त्रीणि द्वे तथैककं वर्षपूर्वकोटी च । विंशच्छतं च विंशतिरब्दानां तन्नृणामायुः ॥ ११ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy