________________
मोक्ष-पंचाशिका।
तत्पदं तु परामर्शादात्मसाध्यानि सूचयेत् । तदसाधारणो धर्मस्त्वशब्देन प्रकीर्तितः ॥ ३९॥ सर्वेषामेव भावानां स्वात्मार्थः प्राय एव हि । तं विना सर्ववस्तूनां स्वरूपस्याविनिश्चयात् ॥ ४० ॥ रसवत्यां यथा भोज्यं व्यर्थ स्यागोजकं विना । एवं वस्तूनि सर्वाणि मुधा चेतनमन्तरा ॥ ४१ ॥ तस्य व्यामोहसंशीतिविपर्यासविवर्जिता। इत्थमेव प्रतीतियों श्रद्धा सा कीर्तिता बुधैः ॥ ४२ ॥ एवं श्रद्धावतो जन्तो भेकस्येवेन्दुवीक्षणे। आत्मानुभवविस्फूर्तादानन्दो दर्शनं मतम् ॥ ४३॥ तत्रानवरताभ्यासश्चारित्रं निश्चयात्मकम् । कर्मोपचयहेतूनां निग्रहो व्यवहारतः ॥४४॥ निराकुलत्वजं सौख्यं स्वयमेवावतिष्ठतः। यदात्मनैव संवेद्यं चारित्रं निश्चयात्मकम् ॥ ४५ ॥ अगोचरं तद्वचसामक्षसौख्यातिरेकभाक् । न भयं न स्पृहा यत्र चारित्रं निश्चयात्मकम् ॥ ४६॥ आत्मनो निर्विकारस्य कृतकृत्यत्वधीश्च या। उत्साहो वीर्यमिति तत्कीर्तितं मुनिपुंगवैः ॥ ४७ ॥ तस्माद्वीर्यसमुद्रेकादिच्छारोधस्तपो विदुः । बाह्यं वाक्कायसंभूतमान्तरं मानसं स्मृतं ॥४८॥ एतच्चतुष्टयं मार्गः समुदाय विनिश्चितः। तमाराध्य गतास्तूर्ण निवृतिं मुनिसत्तमाः ॥ ४९ ॥ सम्यग्विचिन्तयेद्यस्तु मोक्षपंचाशिकामिमाम् । अभ्यस्यन्नात्मनो रूपं विकारेभ्यो निवर्त्तते ॥ ५० ॥
MARATHARIWALIAMEa इतिमोक्ष पंचाशिका। ummmmmmmmm
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org