________________
७२
मोक्ष-पंचाशिका।
द्रव्यस्य वा गुणस्याथ जघन्यांशेऽपि कल्पिते । अंशा अनन्ता अगुरुलघवः किल पर्ययाः ॥ २६ ॥ गुरवो लघवो वर्णा वाग्विलासे व्यवस्थिताः। व्यवहारमतिक्रान्तास्तस्यावाच्यास्ततश्च ते ॥ २७ ॥ गुरूत्कृष्टं जघन्यं तु लघु स्यादात्म्यबाहुलम् । व्यवहारस्तयोस्तस्या गोचरः पर्यया इमे ॥ २८ ॥ आपेक्षिकं गुरुत्वं वा लघुत्वं चाप्यपेक्षया। द्रव्यं तु निरपेक्षं स्यात्तस्मात्ततो गुच्यते ॥२९॥ तदसाधारणो भाव आत्मत्वं यद्वदात्मनः । अगुरुलघुपर्यायः कीर्त्यते वस्तुवास्तवं ॥ ३०॥ अनाद्यनन्ता अगुरुलघवो द्रव्यपर्य्ययाः। अनादिसान्तं भव्यत्वं सिद्धत्वं साधनन्तकम् ॥ ३१ ॥ नारकप्रमुखा भावाः सादिसान्ताः प्रकीर्तिताः। एवं चतुर्विधत्वं स्यात्पर्ययाणां किलात्मनः ॥ ३२ ॥ धर्माधमौ नभो जीवः पुद्गलोद्धा प्रकीर्तितः। द्रव्यषटुमिदं स्वीयैः पृथग्धः समन्वितम् ॥ ३३ ॥ उपग्रहो गतिस्थित्योरवगाहश्च चेतना। वर्णाद्या वर्त्तनैतानि लक्षणान्याह तत्त्ववित् ॥ ३४ ॥ आत्मा चिदेको मूर्त्तश्च कृत्स्नः पूर्णो गुणैर्निजैः । सहस्रांशुरिवात्मानं परं चाऽपि प्रकाशते ॥ ३५ ॥ सम्यग्दृष्टिस्तु तत्त्वार्थश्रद्धानं परिकीर्तितम् । श्रद्धावतोप्यनिर्वाच्यमात्मानुभवजं सुखम् ॥ ३६ ॥ जीवे जीवार्पितो बन्धः परिणामविकारकृत् । आश्रवादात्मनोशुद्धपरिणामात्प्रजायते ॥ ३७ ॥ इति बुध्दास्रवं रुद्वा कुरु संवरमुत्तमम् । जहाहि पूर्वकर्माणि तपसा निर्वृतिं ब्रज ॥ ३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org