________________
मोक्ष-पंचाशिका।
स्वयं सिद्धं मतं द्रव्यं गुणास्तत्सहवर्तिनः । तत्राव्यावर्त्तकाः केचित्केचिद्व्यावृत्तिहेतवे ॥ १३ ॥ अतिव्याप्तिस्तथाऽव्याप्तिरसंभव इति त्रिधा। दोषस्तेन विनिर्मुक्तो गुणो व्यावर्तकः स्मृतः ॥१४॥ अलक्ष्ये वर्तनां प्राहुरतिव्याप्तिं बुधा यथा । गुण आत्मन्यरूपित्वमाकाशादिषु दृश्यते ॥ १५॥ लक्ष्यैकदेशवतित्वमव्यातिः कीर्तिता बुधैः । यथा जीवस्य देहत्वमसिद्धं परमात्मनि ॥ १६ ॥ लक्ष्ये त्वनुपपन्नत्वमसंभव इतीरितः। यथा वर्णादियुक्तत्वमसिद्धं सर्वथात्मनि ॥ १७ ॥ एतद्दोषत्रयातीतं हि व्यावृत्त्यै कलक्षणम् । भवेदुपयोगो जीवस्य मूर्त्तत्वं पुद्गलस्य वा ॥ १८॥ क्रमवृत्तास्तु पर्याया अवस्थाभेद एव ते। केचिद्रव्याश्रयाः केचिद्गुणनिष्ठा इति द्विधा ॥ १९॥ नरामरादयो जन्तौ स्कंधदेशादयो परे। उभयोञ्जनवर्णाद्या द्विधैवं पर्यया मताः ॥ २० ॥ शुद्धाशुद्धा इमे प्रोक्ताः सिद्धाः संसारिणस्तथा। केवलं वाथ मत्यादि कीर्तितं मुनिपुंगवः ॥ २१ ॥ स्वान्यभेदादू द्विधा वा ते निजावरणकर्मणां । क्षयोपशमसंभूता क्षयाद्वा द्युतिरात्मनः ॥ २२॥ केवलिप्रज्ञया तस्या जघन्योऽशस्तु पर्यायः। तदानंत्येन निष्पन्ना सा द्युतिर्निजपर्यायाः ॥२३॥ षट्स्थानपतिताश्चाद्याः केवलं तु क्षयोद्भवम् । . तेन तत्पर्ययास्तुल्याः सदावस्थितरूपिणः ॥ २४॥ क्षयोपशमवैचित्र्यं ज्ञेयवैचित्र्यमेव वा। जीवस्य परपर्यायाः षट्स्थानपतिता अमी ॥ २५॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org