SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७० मोक्ष-पंचाशिका। मोक्ष-पंचाशिका। + e:ज्ञानदर्शनचारित्रतपसां संहतिश्च या। सम्यकपदोपसंसृष्टा मोक्षमार्गः प्रकीर्तितः ॥१॥ गुणपर्ययतादात्म्यविशिष्टस्यैव धर्मिणः । वैशिष्टययुक्तं ग्रहणं ज्ञानं साकारमुच्यते ॥ २ ॥ मुख्यत्वे धर्ममात्रस्य गौणत्वे धर्मिणस्तथा । अनाकारं दर्शनं तत्कीर्तितं मुनिपुङ्गवैः ॥ ३॥ संशयश्च विपर्यासोऽनध्यासश्च भवेत्रिधा। दोषस्तेन विनिर्मुक्तं ज्ञानं सम्यक्प्रचक्षते ॥४॥ अनवस्थितकोटीनामेकत्र परिकल्पनाम् । शुक्तिं वा रजतं किं वेत्येवं संशीतिलक्षणम् ॥ ५॥ विरुद्धकोटिसंस्पर्शा व्यवसायो विपर्ययः । शुक्तौ रजतबुद्धिः सा विपर्यासो भ्रमोऽपि च ॥६॥ विशिष्टस्य विशेषाणामस्य च स्वेन वेदनम् । गच्छतस्तृणसंस्पर्श इवानध्यास इष्यते ॥ ७ ॥ गुणपर्ययतादात्म्यविशिष्टं द्रव्यमुच्यते। उपत्तिव्ययनैयत्यं पर्यायास्तस्य शाश्वताः ॥ ८॥ भूतं चाऽपि भविष्यं च भवतीति विनिश्चितम् । यदतीतं विनष्टं तदागाम्युत्पादलक्षणम् ॥९॥ वर्तमानं धुवं प्रोक्तमेवं द्रव्येषु पर्ययाः। उत्पद्यते विलीयंते तरंगा इव पाथसि ॥ १० ॥ उत्पादव्ययनैयत्यं नैतत्कालस्य कल्पना । यतः स वर्तनारूपोऽवस्थान्तरनिबंधनम् ॥ ११ ॥ पूर्वक्षणादुत्तरत्र भिन्नावस्थां करोति सः । तेनारूपिषु शुद्धेषु न तस्य गतिरिष्यते ॥ १२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy