SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ नीतिसारः। भांडभाजनशुद्धोऽपि पाखंडी यो विनिन्दकः । यतेस्तत्र न भोक्तव्यं तदन्नं पापमुच्यते ॥ ९३ ॥ न योषितः स्पृशेद्योगी काष्ठचित्रकृता अपि । किं पुनः स्पर्शनं तासां यासां स्मरणमापदे ॥ ९४ ॥ पंचचेलविनिर्मुक्ता ग्रेन्थमुक्ता मताः सताम् । न ते सुवर्णरूप्यादि स्पृशन्ति गुरुसंयमाः ॥ ९५ ॥ मुखशुद्धिं न कुर्वन्ति नोपविश्य च भोजनम् । संघेन सह कुर्वन्ति नापेक्षन्ते च किंचन ॥ ९६ ॥ चित्रस्थामपि संस्पृश्य योषितं नैव भुंजते । तस्मिन्नहनि भुक्तं चेत् षष्ठे स्यात्पापनाशनम् ॥ ९७ ॥ पाखंडा यत्र संजाता जिह्वोपस्थादिदंडिताः। "ते सर्वे पापिनस्तस्माद्ब्रह्मचर्य धरेद्यतिः ॥ ९८॥ संघापकारिणं मूढं संघबाह्यं प्रकल्पयेत् । अहिदष्टांगुलिसः सर्वनाशाय जायते॥९९॥ सम्यग्दर्शनशुद्धानां तपसाऽल्पेन जायते। कर्मक्षयस्ततो नूनं तदेव प्रतिपालयेत् ॥ १० ॥ सम्यक्त्वमूलं सर्व स्याज्ज्ञानचारित्रमेव वा । विना तेनाऽपरे नैव कुर्यातां मोक्षसाधनम् ॥ १०१ ॥ प्रतिक्रमादिवेलायां यदि प्राप्येत तत्त्वतः । चतुर्दश्यष्टमी वा वै तदा सैव प्रशस्यते ॥ १०२॥ १ " क " पुस्तके भांडमुक्ता इति पाठः २ " क " पुस्तके गृह्णाति पाठः ३ " क " " ख” पुस्तकयोः " षष्ठं ” इति पाठः परन्त्वत्र " षष्ठे " इति युज्यते ४ " ते सर्वेऽप्यनघं तस्मात् " इति " क " पुस्तके पाठः । ५ "ख" पुस्तके " वासः ” इति स्थाने पुंस इति पाठः-अत्र " वा " शब्दो इवार्थे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy