SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रीइंद्रनंदिप्रणीतः गुरून्विलोक्य सहसा समुत्थानं तथा नतिः । अनुकूलप्रवृत्तिश्च सर्वधर्मशिरोमणिः ॥ ८२ ॥ गुरुणा दीयमानानि वस्तूनि वहुभावतः । पाणिद्वयेन संगृह्य पुनरप्यभिवन्दयेत् ॥ ८३ ॥ दीक्षादाताऽध्यापयितां कृताचार्यादिवाचनः । दोषच्छेदी कृतांतार्थो गुरुरित्यभिधीयते ॥ ८४ ॥ यो यो गुणाधिको मूलगणगच्छाद्यलंकृतः । स सर्वोप्युच्यते जैनैर्गुरुरित्युज्झितस्मयैः । ८५ ॥ कचित्कालानुसारेण सूरिर्दव्यमुपाहरेत् । संघ पुस्तक वृद्ध्यर्थमयाचितमथाल्यकम् ॥ ८६ ॥ पार्श्वस्थवृत्तितां नैवालंबेताऽऽलंबनोज्झितः । न दैन्यं दर्शयेल्लोके प्राणत्यागेऽपि चात्मनः ॥ ८७ ॥ क्षुत्का मलिनाङ्गत्वं यतेर्भूषणमंजसा । न तेन लज्जते योगी पवित्रतरमानसः ॥ ८८ ॥ मनः शुद्धं भवेद्यस्य सः शुद्ध इतिं भाष्यते । विना तेन कृतस्नानोऽप्यंगी नैव विशुद्धयति ॥ ८९ ॥ कार्याकार्यविचारज्ञः सर्वभाषाविशारदः । सर्वशास्त्रार्थवित्साधुर्धर्मस्य प्रतिपादकः ॥ ९० ॥ सगुण निर्गुणो वाऽपि श्रावको मान्यते सदा । नावज्ञा क्रियते तस्य तन्मूला धर्मवर्त्तना ॥ ९१ ॥ विसंघभक्ता भक्तचा चेद्दानं यच्छन्ति योगिने । भाण्डभाजनशुद्धिश्चेन्न निषेधोऽस्ति कश्चन ॥ ९२ ॥ (C << १ समुत्थाय नतानतिः " इति ख पुस्तके पाठः । २ नमस्कुर्यात् ३. कृतसंन्यासविधानः | ४ अयं श्लोकः "ख" पुस्तके नास्ति । ५ पठ्यत इति पाठान्तरम् । Jain Education International " For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy