________________
नीतिसारः।
यच्छास्त्रं रचितं नूनं तदेवाऽऽदेयमन्यकैः। विसंध्यै रचितं नैव प्रमाणं साध्वपि स्फुटम् ॥ ७१ ॥ पूर्वाचार्यवचः श्रीमत्सर्वज्ञवचनोपमम् ।। तज्जानन्ननगारोऽत्र पूज्यः स्यादखिलैर्जनैः ॥ ७२ ॥ विसंध्यैः सममध्यात्मप्रायश्चित्तविधिक्रियाः । सिद्धान्ताचारभावाश्च नाऽऽलोच्या यतिना सदा ॥ ७३ ॥ द्रव्यलिंगं समास्थाय भावलिंगी भवेद्यतिः। विना तेन न पूज्यः स्यानानाव्रतधरोऽपि सन् ॥ ७४॥ अचेलत्वं शिरः कूर्चलोचोऽधः केशधारणम् । निराभरणताऽछिन्नदेहता पिच्छधारणम् ॥ ७५ ॥ द्रव्यलिगमदो ज्ञेयं भावलिंगस्य कारणम् । तध्यात्मकृतं स्पष्टं न नेत्रविषयं यतः ॥ ७६ ॥ मुद्रा सर्वत्र मान्या स्यान्निर्मुद्रो नैव मन्यते । राजमुद्राधरात्यंतहीनवच्छास्त्रनिर्णयः॥ ७७ ॥ स्थावरं देहभेदेन व्रतभेदेन लिंगिनम् । उभयोभिन्नलिंगत्वान्नार्चयेन्नाभिवन्दयत् ॥ ७८॥ येन येन हि कृत्येन धर्मवृद्धिः प्रजायते । तत्तत्कुर्वन्मुनिर्मान्यो भवेदत्र न संशयः ॥ ७९ ॥ आगते स्वागतं कुर्याद्गच्छन्तं न निवारयेत् । तिष्ठन्तं कारयेद्भिक्षामेष धर्मः सनातनः ॥ ८०॥ पिच्छपुस्तकपट्टादीन् याचयित्वा परस्परम् । ग्रहणं न विना याञ्चामेष धर्मः सनातनः ॥ ८१ ॥
१ "व्रतभंगेनेति" "क" पुस्तके पाठः । २ भ्रामयेदिति "क" पुस्तके पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org