________________
श्रीइंद्रनंदिप्रणीतः
वसतौ यत्र पंचाक्षो मृतो रुधिरमेव च। पतितं तत्र नो कल्प्यं प्रतिक्रमणमंजसा ॥ ६१ ॥ सिद्धान्तवाचनेनैव पट्टे तिष्ठेद्दिगम्बरः। चतुरंगुलमानस्तु शस्यते वन्दनास्वपि ॥६२॥ भूशुद्धयादिसमायुक्त क्षेत्रे सूत्रादिवाचनम् । कुर्वन्यतिः परां काष्ठां मरणे लभते परम् ॥ ६३॥ सूत्रपाठं प्रदोषादिवयं कुर्यात्समाहितः। अन्यथा न समाप्नोति फलं चारु पठन्नपि ॥ ६४ ॥ सिद्धान्ताचारपुस्तानि न वाच्यानि विना विधिम् । प्रायश्चित्तं च दातव्यं यथाशास्त्र परीक्षितम् ॥६५॥ गणाधीशान्नमेद्धीमान गुरुभक्तया चाविशेषतः। वन्दनां प्रति दद्याच्च वंदना दीक्षितेष्वपि ॥ ६६ ॥ श्रीभद्रबाहुः श्रीचन्द्रो जिनचन्द्रो महामतिः । गृध्रपिच्छगुरुः श्रीमान लोहाचार्यों जितेन्द्रियः ॥ ६७ एलाचार्यः पूज्यपादः सिंहनन्दी महाकविः । जिनसेनो वीरसेनो गुणनन्दी महातपाः ॥ ६८॥ समन्तभद्रः श्रीकुंभः शिवकोटिः शिवंकरः। शिवायनो विष्णुसेनो गुणभद्रो गुणाधिकः ॥ ६९ ॥ अकलंको महाप्राज्ञः सोमदेवो विदांवरः । प्रभाचन्द्रो नेमिचन्द्र इत्यादिमुनिसत्तमैः ॥ ७० ॥
पंचेन्द्रियः २ लभतेतरां इति " ख” पुस्तके पाठः ३ " विदं " इति "ख" पुस्तके पाठः । “ परीक्ष्य तं” इति "ख"पुस्तके पाठः ५ " महायतिः "इति. "ख" पुस्तके पाठः” ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org