SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ नीतिसारः । निर्ग्रन्थानां नमोऽस्तु स्यादार्थिकाणां च वंदना । श्रावकस्योत्तमस्योच्चैरिच्छाकारोऽभिधीयते ॥ ५१ ॥ भोजने गेमनेऽन्यत्र कार्ये वा यत्र कुत्रचित् । पूर्वाचार्यमतं नूनं प्रमाणं जिनशासने ॥ ५२ ॥ पूर्वाचार्यमतिक्रम्य यः कुर्यात् किंचिदप्यसौ । मिथ्यादृष्टिरिति ज्ञेयो न वंद्यश्च महात्मभिः ॥ ५३ ॥ एकाकिना न गन्तव्यं यतिना सद्वितीयकः । विहरन धर्ममाप्नोति नैकाकी तु कदाचन ॥ ५४ ॥ "" आत्मना पंचमः श्रेयान् चतुर्भिस्त्रिभिरेव च । समं गच्छन्यतिर्गच्छेद्गमनीयं न चापरः ॥ ५५ ॥ मकारत्रितयातीतं मणिमंत्रादिसाधनम् । कुर्यात्तेन समं सिद्धमसिद्धवदुदाहृतम् ॥ ५६ ॥ राजोपासक साधूनां मरणे ग्रहणादिके । पर्वण्यपि न वाच्यः स्यात् सिद्धान्तो मुनिपुङ्गवैः ॥ ५७ ॥ नैर्यन्थ्यं रक्षयेद्धीमान् शीलवस्त्रसमावृतः । न वस्त्रं गृह्यते क्वापि प्राणत्यागेऽपि योगिना ॥ ५७ ॥ भूपतिर्वा श्रावको वा मुनेः किं कर्त्तुमीश्वरः । यस्य चित्तं सदा शुद्धं बुद्धात्मव्यवसायकम् ॥ ५९ ॥ अद्य वा शतकेऽतीते वर्षाणां चापि गच्छतु । वपुरेतन्न पंथानं त्यजन्ति सुधियो जनाः ॥ ६० ॥ १ स्वेच्छया " जय जिनेन्द्र " नमने " इति ८८ 22 क स्र पुस्तकें पाठः । ३ पंचम इत्यस्य स्थाने सप्तभिरिति “ पुस्तके पाठः । ४ गच्छ गणनीय " इति पाठान्तरं । << "" Jain Education International >> ८८ जुहारु इत्यादि । २ "" ६३ " For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy