________________
श्रीइंद्रनंदिप्रणीतः
wimwwwran....
मध्याह्ने दुःखितान दीनान भोजनादिभिरादरात् । अनुगृह्णन्यतिः संघपूजनीयो भवेत्सदा ॥४१ ॥ वरं स्वहस्तेन कृतः पाको नान्यत्र दुइशाम् । मन्दिरे भोजनं यस्मात्सर्वसावद्यसंगमः ॥ ४२ ॥ पिच्छेन मृदुनाऽऽलिख्य वपुर्धर्माद्विशेन्मुनिः । छायां तथैव धर्म च भूमिभेदपि चान्वहम् ॥ ४३ ॥ गृहरोधे पशूनां च बंधनेऽन्नप्रशोषणे । सावद्यकर्मण्यन्यस्मिन् वर्तमाने च मन्दिरे ॥ ४४ ॥ न विशेद्भोजनं कर्त्त प्रविश्य च तदंगणे । मुहुर्न वीक्षयेद्दातॄन् सप्तोच्छवासेषु संमतः ॥ ४५ ॥ व्याध्या योगिनं वीक्ष्य नोपेक्षेत कदाचन । स्वकीयं परकीयं च विदर्शनमथाऽपि च ॥ ४६॥ ज्ञानचारित्रहीनोऽपि जैनः पात्रायतेतराम् । ज्ञानचारित्रयुक्तोऽपि न मिथ्यादृक्कदाचन ॥ ४७ ॥ तस्मै दानं प्रदातव्यं यः सन्मार्गे प्रवर्त्तते । पाखंडिभ्यो ददद्दानं दाता मिथ्यात्ववर्द्धकः॥४८॥ जीर्ण जिनगृहं विंबं पुस्तकं च सुदर्शनम् । उद्धार्य स्थापनं पूर्वपुण्यतो लभ्यमुच्यते ॥४९॥ शयानं व्यग्रमनसं मलाक्तं निंद्यकर्मकम् । न वंदते यति साघुर्धर्मध्यानपरं नमेत् ॥ ५० ॥
१" च सुदर्शनं " इत्यस्य स्थाने " श्राद्धमेव च " इति "क" पुस्तके पाठः २" लभ्य " मित्यस्य स्थाने "अधिक " मिति "क" पुस्तके पाठः ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
ww