________________
नीतिसारः।
ه م في
مية م
مي
आवश्यकमतिक्रम्यै न कुर्यादपरां क्रियाम् । गीतवाद्यादिकं नैव शृणुयाद्रागचेतसा ॥ ३०॥ येन येन हि शास्त्रेण यथा वा विद्यया मुनेः । सम्यक्त्वसंयमादीनां हानिस्तत्सेवनां त्यजेत् ॥ ३१ ॥ आर्यिकाणां गृहस्थानां शिष्याणामल्पमेधसाम् । न वाचनीयं पुरतः सिद्धान्ताचारपुस्तकम् ॥ ३२ ॥ नाचारवाचनां योग्याः तथा स्युः श्रवणाः पराः। वन्दनां प्रति नैव स्याद्वन्दना च कदाचन ॥ ३३ ॥ महत्तराऽप्यार्यिका वै वन्दते भक्तिभविता। अद्य दीक्षितमप्याशु यतिनं शान्तमानसम् ॥ ३४ ॥ कर्मक्षयः समाध्यादिः श्रमणानां नतात्मनाम् । धर्मवृद्धिहस्थस्य व्रतिनः शुद्धचेतसः ।। ३५ ॥ मिथ्यादृष्टेः सुवर्णस्य धर्मवृद्धिरुदाहृता । किरातान् म्लेच्छकान् धर्मलाभेन परितोषयेत् ॥ ३६ ॥ सम्यग्दर्शनशुद्धस्य मातंगस्य वदेन्मुनिः । पापक्षय इति स्पष्टं न तस्याऽस्त्यपरो विधिः ॥ ३७ ॥ गायकस्य तैलारस्य नीचकर्मोपजीविनः । मालिकस्य विलिंगस्य वेश्यायास्तैलिकस्य च ॥ ३८ ॥ दीनस्य सूतिकायाश्च छिपकस्य विशेषतः । मद्यविक्रयिणो मद्यपानसंसर्गिणश्च न ॥ ३९ ॥ क्रियते भोजनं गेहे यतिना भोक्तुमिच्छना।
एवमादिकमप्यन्यच्चिन्तनीयं स्वचेतसा ॥४०॥ : १ उल्लंघ्या । २ अल्पबुद्धीनाम् । ३ नायकस्येति पाठान्तरं । ४ नीचविशेषस्य हैं।
-
-----
---
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org