________________
श्रीइंद्रनंदिप्रणीतः
नूतनस्याग्रशिष्यस्य क्षमाध्ययनशालिनः । मुखशुद्धयादिकं नैव यावश्च गुरुणोच्यते ॥ २० ॥ गृहस्थस्यापि शुद्धस्य जिनवेदोपजीविनः । गृहस्थाचार्यता ज्ञेया स च पूज्योऽखिलैर्जनैः ॥ २१ ॥ तदुक्तैर्धर्मशास्त्रः स्यालोकानामिष्टसंग्रहः । प्रतिष्ठादिषु कार्येषु नूनं तस्याधिकारिता ॥ २२ ॥ साकं विसंधैर्नयते भुक्तौ पंक्तिनतानतिः । परस्परं चतुःसंघे पंक्तिभेदो न विद्यते ॥ २३ ॥ श्रावक शिष्यकं चापि न गृह्णीयात्समाहितः । विसंघशिष्यभक्तानां गृहीति व विद्यते ॥ २४ ॥ परीक्ष्य दीक्षा दातव्या मिथ्यादृष्टेरथान्यथा । दत्ता दर्शनहास्याय स्वोपघाताय च क्रमात् ॥ २५ ।। श्रमणः श्राविकादीनां निवासे निशि न स्वपेत् । 'चित्ते कृताऽपि योषा यञ्चित्तविभ्रमकारिणी ॥ २६ ॥ नार्यिकाभिः समं मार्गे गन्तव्यं यतिसत्तमैः । तत्संगमात्पुराऽभूवन् यतयो दुःखभाजनम् ॥ २७ ॥ एकया योषिता सार्द्ध स्वयमेकाकिना सता । न गोष्ठी क्रियते नैव भुज्यते नाऽऽस्यते ऽपि वा ॥ २८॥ यत्र यत्रेन्द्रियक्षोभो जायते व्रतिनः परम् । तं तं देशं परित्यज्य चारित्रं रक्षयेन्मुनिः ॥ २९ ॥
१ "निंद्यते” इति “क” पुस्तके पाठः। २ जायत इति पाठान्तरं । ३ " चित्रस्थापितयोषाऽपि चित्तविभ्रमकारिणी " ति पाठान्तरम् ४ “ साकं साधं समं सहे ” त्यमरः । ५ स्थीयते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org