SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ नीतिसारः। कियत्यपि ततोऽतीते काले श्वेताम्बरोऽभवत् । द्राविडो यापनीयश्च काष्ठासंघश्च मानतः ॥ ९॥ गोपुच्छिकः श्वेतवासा द्राविडो यापनीयकः । निःपिंछश्चेति पंचैते जैनाभासाः प्रकीर्तिताः ॥ १० ॥ स्वस्वमत्यनुसारेण सिद्धांतं व्यभिचारिणाम् । विरचय्य जिनेन्द्रस्य मार्ग निर्भेदयन्ति ये ॥ ११ ॥ चतुःसंगे नरो यस्तु कुरुते भेदभावनाम् । सः सम्यग्दर्शनातीतः संसारे संचरत्यरम् ॥ १२ ॥ नाऽत्र प्रतिक्रमे भेदो न प्रायश्चित्तकर्मणि । नाचारवाचनायुक्तवाचनैस्तु विशेषतः ॥ १३ ॥ चतुःसंघसंहिताया जैनविम्बं प्रतिष्ठितम् । नमेन्नापरसंघस्य यतो न्यासविपर्ययः ॥ १४ ॥ पंचाचाररतो नित्यं मूलाचारविदग्रणीः । चतुर्वर्ण्यस्य संघस्य यः स आचार्य इष्यते ॥ १५ ॥ अनेकनयसंकीर्ण शास्त्रार्थ व्याकृतिक्षमः। पंचाचाररतो ज्ञेय उपाध्यायः समाहितैः ॥ १६ ॥ सर्वद्वन्द्वविनिर्मुक्तो व्याख्यानादिषु कर्मसु । विरक्तो मौनवान् ध्यानी साधुरित्यभिधीयते ॥ १७ ॥ सर्वशास्त्रकलाभिज्ञो नानागच्छाभिवर्द्धकः । महामनाः प्रभाभावी भट्टारक इतीष्यते ॥१८॥ तत्त्वार्थसूत्रव्याख्याता स्वामीति परिपठ्यते । अर्थक्रियाकलापस्य कर्ता वा मुनिसत्तमः ॥ १९ ॥ १ अहङ्कारात् २ छेदयन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy