________________
श्रीइंद्रनंदिप्रणीतः
श्रीमद्भट्टारक-इन्द्रनन्दि-प्रणीतो
नीतिसार।
00--
प्रणम्य त्रिगन्नाथानिन्द्रनन्दितसंपदः । अनगारान्प्रवक्ष्यामि नीतिसारसमुच्चयम् ॥ १ ॥ भरते पंचमे काले नानासंघसमाकुलम् । वीरस्य शासनं जातं विचित्राः कालशक्तयः ॥२॥ स्वर्ग गते विक्रमार्के भद्रवाहौ च योगिनि । प्रजाः स्वच्छन्दचारिण्यो बभूवुः पापमोहिताः ॥ ३॥ यतीनां ब्रह्मनिष्ठानां परमार्थविदामपि । स्वपराध्यवसायत्वमाविरासीदतिक्रमम् ॥ ४॥ तदा सर्वोपकाराय जातिसंकरभीरुभिः । महर्द्धिकैः परं चक्रे ग्रामाद्यभिधया कुलम् ॥ ५ ॥ तदैव यतिराजोऽपि सर्वनैमित्तिकाग्रणीः । अर्हद्वलिगुरुश्चक्रे संघसंघहनं परम् ॥ ६॥ सिंहसंघो नंदिसंघः सेनसंघो महाप्रभः । देवसंघ इति स्पष्टं स्थानस्थितिविशेषतः ॥ ७॥ गणगच्छादयस्तेभ्यो जाताः स्वपरसौख्यदाः । न तत्र भेदः कोऽप्यस्ति प्रव्रज्यादिषु कर्मसु ॥ ८॥
१ इत्यत्र कविना स्वनामापि प्रकाशितं २ विक्रमादित्यनृपतौ ३ आत्मनिष्ठानां '४ चित्ताभिप्रायत्वम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org