________________
- इष्टोपदेशः।
जीवः मुक्तिश्रियमतज्ञानादिसंपदं निरूपमामनौपम्यां प्राप्नोति । किं कुर्वन्मुक्ताग्रहो वर्जितबहिराभिनिवेशः सन् सजने ग्रामादौ वने वाऽरण्ये विनिवसन् विधिपूर्वकं तिष्ठन् । किं कृत्वा, वितन्य विशेषेण विस्तार्य । कां, माने महत्त्वाधाने अपमाने च महत्त्वखंडने समतां रागद्वेषयोरभावं कस्माद्धेतोः, स्वमतात् इष्टोपदेशाध्ययनचिंतनजनितादात्मज्ञानात् । उक्तंच
" यदा मोहात्मजायेते रागद्वेषौ तपस्विनः । तदैव भावये स्वस्थमात्मानं साम्यतः क्षणात् ।। इति श्रेयः ।
विनेयेंदुमुनेर्वाक्याव्यानुग्रहहेतुना ।
इष्टोपदेशटीकेयं कृताशाधरधीमता ।। १॥ उपशम इव मूर्तः सागरेंदुमुनीन्द्रादजनि विनयचंद्रः सञ्चकोरैकचंद्रः । जगदमृतसगीशास्त्रसंदर्भगर्भः शुचिचरितवरिष्णोर्यस्य धिन्वंति वाचः ॥२॥
जयंति जगतीवंद्या श्रीमन्नेमिजिनांव्हयः ।
रेणवोऽपि शिरोराज्ञामारोहति यदाश्रिताः ॥ ३॥ इति श्रीपूज्यपादस्वामिविरचितः इष्टोपदेशः समाप्तः ॥
१प्रीणयंति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org