SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीइंद्रनंदिप्रणीतः यद्यद्बहुतरं तत्तत्सर्वत्र बलवद्यथा। तथा चतुर्दशीमुख्यतिथीनामपि सङ्गमः ॥ १०३ ॥ अधिका तिथिरादिष्टा धर्मकार्येषु सत्तमा। आदिमध्यान्तभेदेन शक्तितश्चापि हीयते ॥ १०४ ॥ जिनजन्मादिकाः सर्वाः क्रिया मासतिथिप्रमाः। नक्षत्रयोगकरणं न प्रधानं यतश्चलम् ॥ १०५॥ घटीचतुष्टये रात्रे कुर्यात्पूर्वाह्नवन्दनाम् । मध्याह्नस्थाऽपि नियमो नाडीद्वयमुदाहृतम् ॥ १०६ ॥ अपराह्ने तु नाडीनां चतुष्टयसमाहितः । नक्षत्रदर्शनान्मुंचेत्सामायिकपरिग्रहम् ॥ १०७ ॥ या किया क्रियते यत्र तिथौ सा तत्र सम्मता । अनागते ह्यतीते च तस्मिन्नाडीद्वयं मतं ॥१८॥ सिद्धान्ते वाच्यमाने स्याद्यदि मेघस्य गजनम् । विद्युतो दर्शनं चापि तदाऽनध्ययनं मतम् ॥ १०९ ॥ भानोरुदयतो नाडीषट् स्वाध्यायगोचरः । ततो मुनिः प्रवर्तत योग्यकृत्येषु नित्यशः ॥ ११० ॥ मनागुद्देशितो मार्गे नित्यनैमित्तिकात्मसु । क्रियासु विस्तरो ज्ञेयः पूर्वाचार्यमतात्ततः ॥ १११ ॥ तीर्थेशां सर्वभावानां मतं केनाऽनुबुद्धयते । तन्मन्बाना नरो यान्ति शक्रनन्दितसम्पदः ॥ ११२॥ १" तथा तत्ततिथिमुख्या बहूनामपि संगमे " इति "ख" पुस्तके पाठः । २"क" पुस्तके " तदा नाहस्तदीडयते” इति पाठः । ३" तन्मन्वाना न हीयन्ते शक्रनन्दितसम्पदः ” इति "ख" पुस्तके पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy