SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीअमितगतिसूरिविरचिता यतस्ततोऽध्यात्मरतो भवानिशं विमुच्य सर्वामपि बाह्यवासनाम् ॥ २३ ॥ न सन्ति बाह्या मम केचनार्था भवामि तेषां न कदाचनाहम् । इत्थं विनिश्चित्य विमुच्य बाह्यं । स्वस्थः सदा त्वं भव भद्र मुक्त्यै ॥ २४ ॥ आत्मानमात्मन्यवलोक्यमान स्त्वं दर्शनज्ञानमयो विशुद्धः। एकाग्रचित्तः खलु यत्र तत्र स्थितोपि साघुर्लभते समाधिम् ॥ २५ ॥ एकः सदा शाश्वतिको ममात्मा विनिर्मलः साधिगमस्वभावः। बहिर्भवाः सन्त्यपरे समस्ता न शाश्वताः कर्मभवाः स्वकीयाः ॥ २६ ॥ यस्यास्ति नैक्यं वपुषापि सार्द्ध तस्यास्ति किं पुत्रकल त्रमित्रैः । पृथकृते चणि रोमकूपाः कुतो हि तिष्ठन्ति शरीरमध्ये ॥ २७ ॥ संयोगतो दुःखमनेकभेदं यतोऽभुते जन्मवने शरीरी । ततस्त्रिधासौ परिवर्जनीयो यियासुना निर्वृतिमात्मनीनाम् ॥ २८ ॥ सर्व निराकृत्य विकल्पजालं संसारकान्तारनिपातहेतुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy