________________
द्वात्रिंशतिका।
विविक्तमात्मानमवेक्ष्यमाणो
निलीयसे त्वं परमात्मतत्त्वे ॥२९॥ स्वयं कृतं कर्म यदात्मना पुरा
फलं तदीयं लभते शुभाशुभम् ।। परेण दत्तं यदि लभ्यते स्फुटं
स्वयं कृतं कर्म निरर्थकं तदा ॥ ३० ॥ निजार्जितं कर्म विहाय देहिनो
न कोपि कस्यापि ददाति किंचन । विचारयन्नेवमनन्यमानसः
परो ददातीति विमुच्य शेमुषीम् ॥ ३१ ॥ यैः परमात्माऽमितगतिवन्धः - सर्वविविक्तो भृशमनवद्यः । शश्वदधीतो मनसि लभन्ते
मुक्तिनिकेतं विभववरं ते ॥ ३२ ॥ इति द्वात्रिंशतावृत्तैः परमात्मानमीक्षते । योऽनन्यगतचेतस्को यात्यसौ पदमव्ययम् ॥ ३३ ॥ इत्यमितगतिसूरविरचिता द्वात्रिंशतिका समाप्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org