________________
द्वात्रिंशतिका।
न स्पृश्यते कर्मकलङ्कदोषै
यो ध्वान्तसंघरिव तिग्मरश्मिः । निरञ्जनं नित्यमनेकमेकं
तं देवमाप्तं शरणं प्रपद्ये ॥ १८ ॥ विभासते यत्र मरीचिमालि
न विद्यमाने भुवनविभासि । स्वात्मस्थितं बोधमयप्रकाशं
तं देवमाप्तं शरणं प्रपद्ये ॥ १९ ॥ विलोक्यमाने सति यत्र विश्वं
विलोक्यते स्पष्टमिदं विविक्तम् । शुद्धं शिवं शान्तमनाद्यनन्तं
तं देवमाप्तं शरणं प्रपद्ये ॥२०॥ येन क्षता मन्मथमानमूर्छा
विषादनिद्राभयशोकचिन्ता। क्षयोऽनलेनेव तरुप्रपञ्च
स्तं देवमाप्तं शरणं प्रपद्ये ॥ २१ ॥ न संस्तरोऽश्मा न तृणं न मेदिनी
विधानतो नो फलको विनिमितः । यतो निरस्ताक्षकषायविद्विषः
सुधीभिरात्मैव सुनिर्मलो मतः ॥ २२ ॥ न संस्तरो भद्रसमाधिसाधनं
न लोकपूजा न च संघमेलनम् । १ भुवने अवभासते इति भुवनावभास् ( यथा भुवनसद् ) तस्मिन् भुवनावभासि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org