SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतरंगिणी । - याथात्म्यं धर्ममाहुस्तदिह बहुधियो वस्तुजातेश्च सर्व हर्षामर्षाभिषंग प्रविकलमनसां स्यात्सदालें मेषाम् । तदूध्यानाधीनधीनांः प्रतिगमविगमान्मोहमूलं लुनंति तस्मिन्पं चावबोधीपरिकलितकले क्वाऽपि तत्त्वे कृताssस्थाः २२ आज्ञा सर्वज्ञवाणी निजवृजिनजयोपायचिंता त्वपायः कर्मोद्रेको विपाकस्त्रिभुवनरचनाऽऽलंवि संस्थानमुक्तम् । 'तत्राऽयं स्याद्विवेको विचय इह ततो योगिनः स्युः कदाचित् नाकस्त्रीनेत्रनीलोत्पलवनसुहृदः कर्मपाशच्छिदो वा ॥ २३ ॥ धर्मध्यानप्रबंधाभ्यसनसमधिकास्थैर्य लब्धावतारे प्राणायामोर्म्य बाधाऽऽसनजयहृदयस्थानविज्ञानसारे । द्विः श्रोतोवाहिसर्वाऽऽशयशमनसमासन्नसंसारपारे सिद्धश्चित्तप्रचारैर्भवति कृतमतिः शुक्कुयोगोपचारे ॥ २४ ॥ नानाभावः पृथक्त्वं प्रवचनविषयालोकनाक वितर्कः संक्रांतिस्तेन कुर्वन् क्रमविधिवशतो वाचि वाच्ये त्रियोग्याम् । वीचारो द्रव्य आद्यः स्थितमणुममलः पर्यये वा द्विमार्गः कर्मारीणामरीणां स्थितिमनुतनुते स्वर्गगो मोक्षगश्च ॥ २५ ॥ गुप्तचाद्यैः कर्मरुद्धोऽभिपतदुपचितं कर्म सर्व विधुन्वंनेकत्वेहाविचाराद्वृजिनविजयिनीं वीथिकां गाहमानः । १ अनवगतार्थोऽयं पाठः । २ धर्मध्यानायत्तमानसः । ३ चलाचलस्वभाव 'वेनाशात् स्थिरीभूतादित्यर्थः । ४ पंचानां बोधानां समाहारः पंचावबोघी तया परकलिता ज्ञाता कला पर्यायो यस्य तस्मिन् । ५ कृतव्यवस्थाः । ६ अथ वा स्वयं विदितपदार्थतत्त्वस्य सतः परं प्रतिपादयिषोः स्वसिद्धांताविरोधे तत्त्वसमर्थनाय तर्कनयप्रमाणयोजनपरः स्मृतिसमन्वाहारः सर्वज्ञाज्ञाप्रकाशनार्थ - न्वा दाज्ञाक्चियः । ७ अनुभवः । ८ कश्मलभावरहितध्यानप्रवर्त्तने । ९ ज्ञानावृतिभिः । Jain Education International ९५ For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy