________________
स्त्रीसोमदेवप्रणीता
तावन्मात्रेऽपि काले हुतभुगिव भवेद् ध्यानमुच्चैरघानां
ध्वंसायोर्वीधराणां ज्वलदचलतयां वनसंपातजन्मां ॥ १७ ॥ विष्वक्संस्थानदेहे गतिषु चतसृषु प्राणिनि स्तः सहृत्के
सर्वस्मिन्नातरौद्रे विकलकरणके तत्र योगोपयोगः। उत्कृष्टं धर्ममुक्तं यतिषु सुरपशुश्वभ्रिषंढावलानां
मय॑ष्वन्येषु तद्वै दृशि निखिलविदश्चाप्यनुत्कृष्टमाहुः ॥१८॥ आयं शुक्लं विसंहत्युचिततनुविधाबायसंहत्युपेते
विज्ञेयं तत्रयं स्यादितरदपि नरे क्वाऽपि कालाद्यपेक्ष । कोऽधीशो मातुमेतां परणतिमितरां कर्तुमानंत्यक्लप्ते__ स्तत्तद्वाह्यांतरंगाश्रयविषयवशाऽऽवेशभूयोवताराम् ॥ १९ ॥ नाऽऽशास्ते प्राप्तमिष्टं सदापि न मनुते नैव शोचत्यतीतं
न द्वेषोऽनिष्टसंगे न च कलुषमतिर्वाण्यभावाभिलाषी। मायाऽसूयांगशोभामदमदनकथालोकयात्रांतिगश्च
प्रोन्मुंचेदातमेततत्पशुगतिफलदं यः स्तवायास्तु वः सः ॥२०॥ येषां हिंसा न सत्त्वे क्वचिदपि वचसा येषु नाऽसत्यभावो
येषां चित्तं न वित्ते परवति निजके येषु रक्षा न चांगे। ध्यानाये रौद्रसंज्ञादुपरतमतयः श्वभ्रवेशाविदूरों
द्रोषद्वेषप्रमोषाग्रंहविधिविधुराः प्रीतये संतु ते वः ॥२१॥
१ धर्मशुक्रस्वभावं । २ पापानां । ३ पर्वतानां । ४ भास्वरस्थिरतररूपेणेति भावः । ५ दंभोलिदलनोद्भत अग्निीरत्यर्थः । ६ शरीरपंचके । ७ भवतः । ८ नारकः । ९ नपुंसकः । १० अव्रतेषु । ११ दर्शने सति । १२ वज्रवृषभवज्रनाराचनाराचैः कृतकाये । १३ कालश्चतुर्थः समयः पूर्वविदेहोत्पन्नविशुद्धलेश्याकीलितोपकल्पितकायस्याऽपि प्रथमं शुकं भवतीत्यर्थः । १४ नेच्छति । १५ कीर्तनाय । १६ अन्यदीये। १७ नरकप्रवेशनिकटात् । १८ चोरणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org