________________
अध्यात्मतरंगिणी।
संजायेतार्थसिद्धिः कथमिति न परी देहिलोहे जनस्य पश्चाव्योमोपयोगाल्लघु समधिगते कांचनाऽऽस्थां रसेंद्रे ॥१२॥ वैराग्यापारवारेः प्रशमदमदयोदीर्णमार्गत्रयायाः
सम्यग्ज्ञानोन्मदोर्मेर्मतिसुरसरितः सत्यतीर्थे स्थितानाम् । जन्मोच्छेदो नराणां द्रवदखिलमलस्वांतसंतोषभाजां
ध्यानस्नानानुबंधान्न हि भवति परां तीरिणी याचितानाम् १३ लक्ष्यं त्रैलोक्यमर्थोऽस्य पुनरवयवः पर्ययस्तस्य कश्चित्
यश्चित्तस्यायनासानयननिलयने रूपकेऽणुस्ततो हृत् । स्वं ध्यानी तद्विसृज्य प्रविसरणवशाजन्मबीजं पिनष्टि
स्वस्मिस्तत्सर्वसत्त्वोत्सवकरचरितश्चैकमासीधानः ॥ १४॥ एकं चिंतानिरोधात्पुनरिदमुभयं ध्यानमांतर्मुहूर्त
सद्भूयोऽदश्चतुर्धा पुनरिदमपरे षोडशांशं ध्वनंति । तिर्यकश्वभ्रद्युमोक्षपदमवहिततोद्योगसाम्येऽपि धर्म्य
धूमध्वांतस्वभावात्तदपि दशविधं वह्निभानुक्रमेण ॥ १५ ॥ एकत्र स्थैर्यसारा मतिरभिलषिते चंचला वस्तुतत्त्वे . .
ध्यातुं व्यावृत्त्य चित्तं विविधनयमनुप्रेक्षणं चिंतनं नु । संप्रश्नो भावना वा श्रुतविदितपदालोचनं ख्यापना वा
ध्यानाधीना अमी तत् समभिदधुरघौघादनं ध्यानमीशाः॥१६॥ कालोऽस्यांतर्मुहूर्तः परम इह परः पंचलध्वक्षरः स्या
चित्तानां दुर्धरत्वादतिचपलतया तत्परो नास्ति कालः। ..१ उत्कृष्टा । २ देही आत्मा एव लोहं तस्मिन् लोहं किटकालिकाकलितमयोरूपतां धत्ते तथा जीवोप्यतर्बहिः किटाक्रांतत्वात्स्वभावतां प्रतिपद्यते ।
३ पक्षेऽभ्रकं । ४ संमुइसा । ५ नदी । ६ पापवदवि नाशकम् । -७ ध्यानस्य 1... .. .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org