________________
जिनदत्तचरित्रे
अवाचि च खगाधीशदेहजा माशुचेः शुभे। समदुःखा यदावाभ्यां भवती च सधर्मिणी ॥ ५५ ॥ एवंविधानि संसारे सरतां प्राणधारिणाम् । दुःखानि शतशः सन्ति तद्विषादेन किं सखि ॥ ५६ ॥ यथाविधपरिज्ञातस्ववृत्तान्ता कृता च सा। श्रुत्वा सन्धारितं चेतः स्वकीयं तयंका तदा ॥ ५७ ॥ दानपूजाश्रुताध्यायसङ्गताः शुभसङ्गताः । एवं तिस्रोऽपि ताः सन्ति तत्र प्रीताः परस्परम् ॥५८॥ अथ रूपं परावृत्य वामनीभूय तां पुरीम् । सबयस्यः कुमारोऽपि प्रविश्याजनि गायनः ॥ ५९ ॥ गन्धर्वदत्तनामासौ चित्रकौतुककारकः। गीतैराख्यायकैः कान्तै हार जनतामनः ॥ ६० ॥ दत्वा जीवनकं राज्ञा विधृतो निजसन्निधौ । गन्धर्वादिविनोदेन तत्राऽस्थाज्जनवल्लभः ।। ६१ ॥ अन्येधुर्गदितं राज्ञः पुरस्तादिति केनचित् । यथा देवात्र तिष्ठन्ति स्त्रियस्तिस्रो जिनालये ॥ ६२॥ रूपलावण्यसौभाग्यकान्तीनां परमं पदम् । न हसन्ति न जल्पन्ति समं केनाऽपि ताः प्रभो ॥३॥ केनाऽपि हेतुनेत्येवं श्रुत्वा भूमीभुजा मुहुः । आलोकितमुखोऽवादीद्विहस्योत स वामनः ॥ ६४ ॥
१ शोक मा कुरु । २ तया " स्वार्थ कः" प्रत्ययः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org