________________
षष्ठः सर्गः !
किं मया मदनातङ्कादन्यजन्मनि विनिता। . सपत्नी वनिता वान्या भर्तृसङ्गमलालसा ॥४४॥ तस्येदं फलमायातमलध्यमतिदुःसहम् । किमतोऽहं विधास्यामि भग्नाशा निर्जने वने ॥ ४५ ॥ वल्लभा नाथ चेलाहं मुञ्च मां कुलमन्दिरे। एककां तत्र यान्तीं मामयशो हन्ति दुर्वचम् ॥ ४६॥ यद्यहं सापराधापि दीयतां दर्शनं लघु।। कारुण्यं क्व नु ते कान्त मामेवं यापेक्षसे ॥ ४७ ।। आक्रन्दन्त्यास्ततस्तस्याः स्थितेन जिनसद्मनि । कुमारप्रेयसीयुग्मेनाश्रावि रुदितध्वनिः॥४८॥ निर्गताभ्यां ततस्ताभ्यां सजवाभ्यां विलोकिता । निकटे वनदेवीव तदुद्याने दुमान्तरे ॥ ४९ ॥ आश्वासिता च सा ताभ्यां बहुधा जिनमन्दिरम् । जगाम संहृताशेषविमानादिविधिस्ततः ॥ ५० ॥ प्रसन्नवदना तत्र त्यक्ता" भक्तितत्परा। जिनाधीशं नमस्कृत्य तदन्ते समुपाविशत् ॥ ५१ ॥ उदाजहार पृष्टा च तयोः स्वचरितं पुनः । निशम्यान्योन्यमालोक्य स्मितं ताभ्यां सविस्मयम् ॥५२॥ चिन्तितश्च किमेतेन भवितव्यं प्रियेण नौ । यतोऽस्मद्न्तसंवादि वस्त्येषा वचोखिलम् ॥ ५३ ॥ अथ वा किमलीकेन विकल्पेनाऽमुनाऽधुना । अयमेव यथाकामं फलतादेवपादपः ॥ ५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org