________________
जिनदत्तचरित्रे
एवमस्त्विति सञ्जय सा सुष्वाप सुनिर्भरम् । प्रसुप्तां तां ततो ज्ञात्वा जिनदत्तस्तिरोदधे ॥ ३३ ॥ उन्मोटिताङ्गयष्टिः सा यावदुत्तिष्ठते ततः। अरण्यं वा विमानं तदद्राक्षीद्दयितोज्झितम् ॥ ३४॥ ददर्श च दिशस्तेन विना सतिमिरा इव । व्योमासोमं महीं मोहजननी जातविभ्रमा ॥३५॥ विललाप ततो यूथभ्रष्टेव हरिणी भृशम् । विषादतरलां दृष्टिं पातयन्ती समन्ततः ॥ ३६॥ जीवितेश ! समुत्सृज्य मामत्र व गतोऽधुना। निमेषमपि ते सोढुं वियोगमहमक्षमा ॥ ३७॥ नर्माशर्मकरं कान्त त्यज चित्तविदाहि मे। मालतीमुकुलम्लानिं धत्ते हि हिममारुतः॥३८॥ रागान्धया कयाथाशु किं हृतः खगकन्यया । केनापि वाऽरिणा नाथ नररत्नं कटाक्षितम् ॥ ३९ ॥ स्वप्नेनापि न मेऽनिष्टं शिष्टं बान्धवसूचितम् । कमरिष्टमिदं जातं दत्तदुःखपरम्परम् ॥४०॥ अथ वाऽस्ति न ते दोषः शेषोऽपि शुभदर्शन । ममैव पूर्वकर्माणि फलन्त्येवं सविस्तरम् ॥ ४१॥ राजहंसो मया कान्तासन्निधौ कुंकुमादिभिः । प्रायः पिञ्जरितः किन्तु क्रीडापद्मसरःस्थितः ॥ ४२ ॥ प्रातरेवाथ कान्तायाः सङ्गमाभिमुखो मया। रथाङ्गविहगश्चके वियुक्तो युक्तिहीनया ॥४३॥
१ उक्त्वा । २ अन्तर्हितो बभूव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org