________________
षष्ठः सर्गः ।
अहो मानुषमात्रेऽपि शृङ्गारमुखमानसाः। किमेवं स्थापयध्वं भो हासयाम्येष ता अहम् ॥ ६५ ॥ विकासहाससम्पन्नान द्रुमानपि नरेश्वर । विनोदेन करोम्येष मानुषेषु तु का कथा ॥ ६६॥ ततो ऽसौ प्रेषितो राज्ञा स्वल्पलोकैः समं मुदा । जगाम सोऽपि सङ्कल्पसङ्केतः स्वजनैः सह ॥६७ ॥ जिनार्चा प्रणिपत्यान्ते स तासां समुपाविशत् । कृतगीतादिकः प्रोचे वयस्यैरिति सादरम् ॥ ६८ ॥ यथा कथानकं किंचित्कथ्यतां कौतुकावहम् । श्रूयतां सावधानैर्भोः कथयामि स्वचेष्टितम् ॥ ६९॥ वसन्तादिपुरादेत्य चम्पोद्यानमुपयुषा। यावत्कान्तापरित्यागस्तावत्तेन निवेदितम् ॥ ७० ॥ तदाकाऽलपत् स्मित्वा विमलादिमतिस्तदा । किं ज्ञातमिति भोः ब्रूहि सुष्टु रम्या कथा तव ॥ ७१ ॥ अत्रान्तरे समुत्थाप्य नीतोऽसौ स्वजनैस्ततः । यथा राजकुले वेला वर्तते गम्यतामिति ॥ ७२ ।। तथैवैत्य द्वितीयेऽह्नि स्ववार्ता तावदीरिता । आरभ्य गमनं द्वीपे यावत्पातः पयोनिधौ ।। ७३ ॥ ततस्तूष्णीं स्थिते तत्र स्मित्वा श्रीमतिरब्रवीत् । किं ततोऽजनि भो भद्र सरसेयं कथा तव ।। ७४ । किं याति तव शृण्वत्याः परायत्ता वयं पुनः। वर्त्ततेऽवसरो यामो राजमन्दिरमुत्सुकाः॥ ७५ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org