SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आचारसारे कुदृष्टयादिसयोगान्ता आहारे कार्मणे स्थिताः। अयोगिनश्चानाहारे सिद्धा निर्धूतकार्मणाः ॥१५४॥ चतुर्दशसु मिथ्यादृक्पूर्णेऽपूर्णे च संज्ञिनि । सासादनायतसुहकप्रमत्तास्तु गुणास्त्रयः॥१५५॥ पूर्ण जीवसमासे स्युः संज्ञिनोऽन्ये जिनौ विना । एवं जीवसमासेषु मार्गणा अपि योजयेत् ॥ १५६ ॥ सप्तम्याः श्रेण्यसंख्यातभागमात्रास्ततः क्रमात् । घर्माया नारका यावदसंख्यातगुणाः स्मृताः॥१५७॥ पंचाक्षाः प्रतराऽसंख्यभागमात्रास्ततोऽधिकाः। चतुस्त्रिद्वीन्द्रया जीवाः कमात्ते त्रसकायिकाः॥१५८॥ असंख्यलोकाः स्युस्तेजस्कायिकाः क्रमशोऽधिकाः। तदसंख्येयभागेन पृथ्व्यप्पवनकायिकाः ॥ १५९ ॥ अनंतानंतसंख्याता निगोदाः क्रमशोऽधिकाः । वनस्पतय एकाक्षास्तिर्यञ्चश्च यथोचितम् ॥ १६० ॥ अन्तरद्वीपकुनराः संख्याता गुणिताः क्रमात् । संख्यातरूपैः कुरुषु हरिरम्यकवर्षयोः ॥ १६१ ॥ हैमवतभूहैरण्यवतो? गभूमिजाः। भरतैरावतक्षेत्रे विदेहे पूर्णमानवाः ॥ १६२ ॥ युग्मं । लब्ध्यपूर्णा जगच्छ्रेण्यसंख्यभागमिता मताः। भरतादिषु कर्मावनीषु तेभ्योऽधिका नराः॥ १६३ ॥ असंख्यश्रेणिवैमानिकेभ्योऽसंख्यगुणाः क्रमात् । भावना वाना ज्योतिष्कास्तेभ्यः संख्यातसंगुणाः॥ १६४॥ मर्येभ्योऽसंख्यगुणिता असंख्यश्रेणिनारकाः । तेभ्यो देवास्ततः सिद्धाश्चासंख्यानंतसंगुणाः ॥ १६५ ॥ तिर्यचोऽनंतगुणितास्तेभ्यः संसारिणोऽधिकाः। सिद्धराशिप्रमाणेन सर्वे जीवास्ततोऽधिकाः॥१६६ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy