________________
एकादशोऽधिकारः । आधारे बादराः सूक्ष्माः सर्वत्र त्रसनालिगाः। त्रसास्तु विकलाक्षाः स्युस्तिर्यग्लोके व्यवस्थिताः ॥ १६७॥ कर्मायत्तश्चिरं जीवः संसारे पर्यटत्यसौ। प्रकृत्याऽपविधं त्वष्टचत्वारिंशच्छतं च तत् ॥ १६८ ।। यत्तत्राष्टविधं ज्ञानदर्शनावरणीयतः। स्याद्वेदनीयमोहायुर्नामगोत्रान्तरायतः ॥ १६९ ॥ ज्ञानं मतिश्रुतावधिमनःपर्ययकेवलम् । आवृणोतीति तज्ज्ञानावरणं पंचभेदगम् ॥ १७० ॥ स्त्यानगृद्धिन्द्रिानिद्राप्रचलाप्रचलाद्वयम् । निद्रा च प्रचला चक्षुरचक्षुर्दर्शनावृती ॥ १७१ ॥ अवधेः केवलस्यापि दर्शनस्यावृती इति। चतुर्विधेऽपि स्वावार्ये दर्शनावतयो नव ॥ १७२ ॥ युग्मम् । सातासातद्वयं वेद्यः । मिथ्यात्वं सम्यमिथ्यात्वं सम्यक्त्वं दृग्विमोहनम् ॥ १७३ ।। क्रोधादिभेदानंतानुबन्धी संज्वलनस्तथा । प्रत्याख्यानः कषायः स्यादप्रत्याख्यान इत्यमी ॥ १७४॥ चारित्रमोहनीयं स्यु!कषायाश्च ते नव। पुरुषस्त्रीषण्ढवेदत्रयं रत्यरती तथा ॥ १७५॥ हास्यशोको भयं चापि जुगुप्सायुश्चतुर्विधम् । निरयायुस्तिर्याय॑सुरायूंषीति वर्णितम् ॥ १७६ ॥ नाम त्रिनवतिर्भेदैर्गतिस्तत्र चतुर्विधा। जातिः पंचविधा पंचभेदभंगं च बन्धनम् ॥ १७७॥ पंचभेदोऽगसंघातः स्युः संस्थानानि षट्र तनोः । त्रीण्यंगोपांगनामानि देहसंहननानि षट् ॥ १७८ ॥ वर्णाः पंच द्विगन्धौ स्युः पंच रसाः स्पर्शाष्टकम् । आनुपूर्व्यश्चतस्रोऽगुरुलध्वेकं शरीरगम् ॥ १७९ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org