________________
एकादशोऽधिकारः ।
कुक्सासादनसुदृचतुर्गतिगविग्रहे। कार्मणस्तु सयोगस्य प्रतरे लोकपूरणे ॥ १४१ ॥ स्थावरादिस्ववेदाऽनिवृत्त्यंताः स्युनपुंसके । असंड्यादिस्ववेदानिवृत्त्यन्ताः शेषवेदयोः ॥१४२ ॥ कुडगाद्यनिवृत्तिद्वित्रिचतुर्भागगा गुणाः। क्रोधत्रये कमाल्लोभे सूक्ष्मलोभान्तिका दश ॥ १४३ ॥ एकेन्द्रियादिपर्याप्तसंड्याद्याद्यगुणद्वये । स्यातां मतिश्रुताज्ञाने विभंगोऽपि यथाक्रमम् ॥ १४४॥ चतुर्थषधप्रभृतिक्षीणमोहान्तगाः क्रमात् । ज्ञानत्रये मनःपर्ययेऽहत्सिद्धेषु केवलम् ॥१४५ ॥ असंयमे चतुर्थान्ताः पंचमो देशसंयमे । प्रमत्ताद्यनिवृत्त्यंता यमे सामायिकद्वये ॥१४६॥ परिहारौं प्रमत्ताप्रमत्तौ सूक्ष्मलोभकः । स्यात्सूक्ष्मसांपरायेऽन्ये यथाख्याते तनी न सः ॥ १४७ ।। चतुरक्षकाक्षायतसदृष्ट्याद्यास्तु दर्शने। छद्मस्थान्ताः स्मृताश्चक्षुष्यचक्षुष्यवधी क्रमात् ॥१४८॥ केवले जिनसिद्धाः स्युः स्थावरायाश्चतुर्गुणाः। अप्रशस्तत्रिलश्यासु प्रमत्तान्ताश्च कीर्तिताः॥१४१॥ शुभलेश्यासु संझ्यादिसप्तमान्तास्ततोऽपरे । शुक्लायां स्युः सयोगान्ता लेश्यातीतास्ततः परे ॥ १५० ॥ भव्ये सर्वगुणस्थानान्यभव्ये प्रथमो गणः । मिथ्यात्वादित्रये मिथ्यादृष्टयाद्याः स्युस्त्रयो गुणाः ॥ १५१ ॥ वेदकाद्योपशमयोश्चतुर्थाद्याश्चतुर्गुणाः। चतुर्थायुपशान्तान्ता द्वितीयोपशमे मताः ॥ १५२ ॥ सिद्धान्ताः स्युश्चतुर्थाद्याः सम्यक्त्वे क्षायिके वरे । संज्ञिनि द्वादश गुणा मिथ्यादृष्टिरसंक्षिनि ॥ १५३ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org