SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आचारसारे अथ दशमोऽधिकारः ॥१०॥ यद्वाक्यामृतमाजवंजवदवोत्तप्तात्मनामात्मनां नानैनश्चिततापलोपनपरं श्रीशीतलः शीतलम् । यस्यांगस्य मरीचिमंडलमिलानंदेदिरामन्दिरं पायात्पार्वणशीतरश्मिरुचिरः सोऽयं जिनाधीश्वरः॥१॥ दीक्षां पीठिकयोदितेन विधिना शिक्षा गृहीत्वा समाचारेणानुमतो गणेन गणिना प्राप्तश्च सत्सूरिताम् । षत्रिंशद्गुणभूषणो व्यपगतव्यापद्गणं सद्गणं रक्षन् यः समयं नयत्यतितरां धन्यः स मान्यो मुनिः॥२॥ ज्योतिः शास्त्रविनूतजातकमतान्नानानिमित्तक्षणाप्रश्नाच्चायचयग्रहावलिबलक्षीणत्वसंप्रेक्षणात् । प्रश्नस्याक्षरलक्षणेक्षणवशात्कालागमात्स्वायुषो मानं द्वादशवर्षसंमितमतो हीनं च निश्चित्य सः॥३॥ पश्चाञ्चारुतरात्मसंस्करणधी/रो मुमुक्षुर्गुणी प्रीत्या पालितमात्मनात्मनि महान्नेहानुबंधे महत् । वृन्दं तुन्दिलबालरोगिसुतपः शैक्षादिभिश्वन्वितं प्रारोप्यात्मभरं वरं गणधरे सद्वृत्तलक्ष्मीधरे ॥४॥ रक्षादक्षतमं गणस्य गणिनं सर्व गणं चादरा दाहूय प्रियवाक्चयामृतरसासारेण चेतोगतम् । तापं तस्य निरस्य दुस्तरतरं जातं वियोगाद्गुरोः स्वस्यातो नियतं विहारमपरं कुर्वन्मुनीन्द्रोत्तमः॥५॥त्रिकम् । प्रेक्ष्यन्ते बहुदेशसंश्रयवशात्संवेगिताद्याप्तयस्तीर्थाधीश्वरकेवलोद्गममही निर्वाणभूम्यादयः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy