SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ हशमोऽधिकारः । ७१ स्थैर्य धैर्यविरागतादिषु गुणेष्वाचार्यवर्य क्षणाद्विद्यावित्तसमागमादधिगमो नूत्नार्थसार्थस्य च ॥६॥ सद्रूपं बहुसूरिभाक्तिकयुतं क्षामादिदोषोज्झितं क्षेत्रं पात्रमपीक्ष्यते तनुपरित्यागस्य निःसंगता। सर्वस्मिन्नपि चेतनेतरबहिःसंगे स्वशिष्यादिके गर्वस्यापचयः परषिहजयः सल्लेखना चोत्तमा ॥७॥ सम्यकायकषायकार्यकरणं सल्लेखनाद्या वरैयोगैर्वर्षचतुष्टयं रसपरित्यागैस्तथाब्दद्वयम् । सौवीरानरसोज्झनैरभिषवान्नेनाब्दमेतद्दलं बार्मिन्दतपोभिरुग्रनियमैरब्दार्धमंगार्दनम् ॥८॥ कालं कायबलं च देशमशनं पानं प्रकृत्यादिकं ज्ञात्वा पित्तकफानिलैर्निजगतेन स्याद्यथा विक्रिया। कर्तव्या विदुषा तथोक्तविधिभिर्बाद्यैस्तपः प्रक्रमैराचार्याऽनुमतैः समाधिफलदैरेषांगसल्लेखना ॥९॥ सध्यानप्रकरैः कषायविषया सल्लखना श्रेयसी स्वेष्टानिष्टवियोगयोगयुगजे बाधानिदानोद्भवे । इत्यातस्य चतुर्विधस्य विजयो हिंसामृषास्तेयसंरक्षानन्दविभेदतोऽशुभकृतो ध्यानस्य रौद्रस्य च ॥१०॥ ध्यातृध्यानविचिंत्यचिंतनफलान्यंगानि चत्वारि तैः स्याद् ध्यानं सदसच्च तत्र भवति ध्यातोत्तमैरन्वितः। आद्यैः संहननैस्त्रिभिस्त्रिभिरुपतोऽन्त्यैः स नाऽस्मिन्पुनः चिन्तातर्वहिरंगकारणसृणिप्रेर्यो हि कार्यद्विपः ॥ ११ ॥ एकस्मिन्विषयेऽग्रमाननमभूदस्या मतेरित्यसावेकाना विषयोपयोगनिरता चिन्ता निरोधोऽचलावस्था स्यानिजगोचराचलमनो ध्यानं तदंतर्मुहूविस्थानमतीवदुर्धरतया नाऽतः परं तिष्ठति ॥ १२ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy