SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ नवमोऽधिकारः । विपक्षक्षयजानंतानंतज्ञानादिसद्गुणः । दद्यादद्य स नः प्राज्यं वृजिनारिजयं जिनः ॥ ९४ ॥ निराकृत्यान्तरं ध्वान्तं सूरिसूरः करोत्वरम् । सन्मानसांबुजानंदममन्दं वाक्करैवरैः ॥ ९५ ॥ कुर्वन्नखर्वदुर्वादिमदद्विरदमर्दनम् । स्याद्वादाद्रावुपाध्यायसिन्धुरारिर्विजृंभताम् ॥ ९६ ॥ रत्नत्रयामृतांभोधिविधवः साधवः श्रियम् । दद्युरात्मर्द्धिनिर्धूतदुरितध्वान्तवृत्तयः ॥ ९७ ॥ त्रिजगद्गुरवः सर्वैर्गुणैर्गुरव इत्यमी । गुरवः पंच नः पान्तु पापापायनिकायतः ॥ ९८ ॥ लोकत्रयेशदत्तार्घ्यमप्यनयै महोदयम् । रत्नत्रयं पवित्रं नः पुनातु हृदयं सदा ॥ ९९ ॥ स्तुत्यः स्तुतिशतैर्धर्मः शर्मदो यो गुणाधिकः । गुणिनः सद्गुणाञ्चैते भवन्तु मम मङ्गलम् ॥ १०० ॥ यत्कान्तकान्तिः कुमुदं वितन्वती तनोत्यलं तत्कमलोत्सर्वं नवः । निरस्तदोषाऽभ्युदयाक्षयश्रियं क्रियात्स चंद्रप्रभदेववल्लभः ॥ १०१ ॥ Jain Education International इति श्रीमद्दीरनन्दिसिद्धान्तिचक्रवर्तिप्रणीते श्रीआचारसारनाम्नि शास्त्रे नवमोऽधिकारः ॥ ९ ॥ ६९ For Private & Personal Use Only www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy