________________
आचारसारे
कुड्याश्रितं लतावकं स्तंभावष्टंभकुंचिते। स्तनेक्षाकाकदृक्शीर्षकंपितं युगकन्धरम् ॥८१॥ भ्रूक्षेपोत्तरितोन्मत्तपिशाचाष्टदिशेक्षणम् । ग्रीवाऽवनमनं मूकसंज्ञा चांगुलिचालनम् ॥ ८२॥ निष्ठीवनं खलिनितं शबरीगुह्यगृहनम् । कपित्थमुष्टिग्रीवोन्नमनं शृंखलिताह्वयम् ॥ ८३ ॥ मालिकोद्वहनं स्वांगस्पर्शनं घोटकांघ्रि च । स्थानं द्वात्रिंशदित्येते त्याज्या दोषास्तथा परे ॥८४॥पंचकम् । वामान्तर्गुल्फवामस्य गुल्फो बाह्यः स्थितस्तयोः । पादयोरूरुमूलस्थं पल्यंके पाणियुग्मकम् ॥ ८५ ॥ गुल्फस्थोत्तानवामस्थोत्तानावामकरः समः । पल्यंकेऽत्रासने स्याञ्चेत्कायोत्सर्गः सुसौष्ठवः ॥८६॥ युग्मम् । त्रिशुद्धौ द्वादशावत द्विनिषण्णे चतुर्नतौ। बद्धांजुलौ त्यजेद्दोषान् कृतिकर्मव्रजेऽप्यमून् ॥ ८७॥ स्तब्धः प्रविष्टोऽनालब्धमालब्धं परिपीडितम् । दोलायितं मनोदुष्टं मत्स्योद्वर्त्तनभेषितम् ॥ ८८ ॥ हीनाधिकद्धिगौरवशेषगौरवघर्घरम् । भेष्यत्वं स्तनितं मूकमुन्मत्तकमनाद्रुतम् ॥ ८९ ॥ तर्जितं शब्दितं संघकरमोचितं कुंचितम् । वेदिकाबद्धक्रोधादिशल्याचार्यादिदर्शनम् ॥ ९०॥ प्रत्यनीकं सुललितादृष्टे कच्छपरिंगितम् । हलितं त्रिवलितं चेति द्वात्रिंशदमी मताः॥ ९१ ॥ चतुष्कम् । नष्टदुष्टाष्टकर्माणस्ते पुष्टाष्टगुणर्द्धयः । त्रिलोकीमस्तकोत्तंसाः सिद्धा नः सन्तु सिद्धिदाः॥९२॥ श्रीपादेंदूदयस्यासीदमरीचिकुरोऽम्बरम् । यस्य स्याद्वादिनो विश्ववेदिनः पातु नो जिनः ॥९३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org