________________
नवमोऽधिकारः ।
पश्चाच्चारित्रभाक्तः स्यात्सिद्धभक्तेः क्रियान्तगाः। चारित्रबृहदालोचनाध्वाचार्यत्रिभक्तयः॥ ६८॥ (युग्मम्) चारित्रबृहदालोचगुरुभक्तिद्वयं विना।। शेषाः शेषेषु कर्त्तव्याः स्युः प्रतिक्रमणेषु ताः ॥ ६९॥ प्राक सिद्धयोगभक्ती स्तो दीक्षाग्रहणढुंचने । तल्लुचनावसाने तु सिद्धभक्तिर्विधीयते ॥ ७० ।। स्तः सिद्धयोगभक्ती द्वे प्रत्याख्याने तदन्तगा। सूरिभक्तिर्भवेत्सिद्धभक्तिनिष्ठापनेऽस्य तु ॥७१॥ ताः स्युमंगलगोचरप्रत्याख्याने तु भक्तयः। महत्यः शान्तिभक्तिश्च सूरिभक्तेरनन्तरम् ॥ ७२ ॥ श्रुतसूरिभक्तिपूर्व स्वाध्यायं प्रविधाय तु। निष्ठापयेदमुं काले श्रुतभक्त्या यथोदिते ॥ ७३ ॥ भवेन्मंगलगोचारमध्याह्ने स्नपनस्तवः । सवर्षाकालयोगस्याऽऽदाननिष्ठापनेपि तु ॥ ७४ ।। योगभक्तिर्भवेदत्र सिद्धभक्तेरनन्तरम् । सिद्धान्तवाचनायाः श्रुतपंचम्याःक्रियोदिताः॥७५॥ (युग्मम्) सिद्धान्तार्थाधिकाराणामादावन्ते च भक्तयः। तिस्रः सिद्धश्रुताऽऽचार्यसंश्रिताः परिकीर्तिताः॥७६॥ कुर्याद् व्युत्सर्गमेकैकं समाप्तौ भक्तिपूर्वकम् । सिद्धान्तार्थाधिकाराणां विद्याविद्याफलाप्तये ॥ ७७॥ ज्ञानविज्ञानसंपन्नः स्थविरः प्रश्रयाश्रयः । गुरूणां सन्निधौ सिद्धसूरिभक्ती विधाय तु ॥ ७८॥ गुर्वाज्ञया समादाय गणेशपदवीं ततः। शान्तिभक्तिं यतिः कुर्याद्वर्वादीनामपि स्तवम् ॥ ७९ ॥ युग्मम्। ऋज्वंगस्थाने व्युत्सर्गे लीलाऽऽलंबितदोर्युगे। समांगुलीचतुष्कान्तरस्थपादेऽप्यकंपिते ॥ ८०॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org