________________
'६६
आचारसारे
ज्ञानोत्पत्तौ क्रियैषैव सिद्धभक्तेरनन्तरम् । श्रुतभक्तिश्च स्यात्किन्तु जिननिर्वाणभूष्वपि ॥ ५५ ॥ परिनिर्वाणभक्तिस्तु योगभक्तेरनन्तरम् ।। परिनिर्वाणभक्तया तु त्रिः परत्यि क्रिया भवेत् ॥५६॥ (युग्मम्) सिद्धनिर्वाणयोः पंच गुरूणां भक्तिरप्यतः । स्याच्छान्तिभक्तिः श्रीवर्द्धमाननिर्वाणवासरे ॥ ५७ ॥ समाधिविधिना सम्यक सामान्ये संयते मृते सिद्धभक्तिर्भवेद्योगशान्तिभक्तिद्वयं ततः॥ ५८ ॥ यद्यत्र श्रुतभक्तिः स्यात्सिद्धभक्तरनन्तरम् । कृतिकर्मेति निर्दिष्टं साधौ सिद्धान्तवेदिनि ।। ५९ ॥ सामान्यमुनिकर्मैव व्रतिन्युत्तरयोगिनि । स्यात्तु चरित्रभक्तिश्च सिद्धभक्तेरनन्तरम् ॥ ६०॥ स्यात्सिद्धश्रुतचारित्रयोगभक्तिचतुष्टयम् । शान्तिभक्तिश्च सिद्धान्तवेदिन्युत्तरयोगिनि ॥६१ ॥ आचार्येषु चतुर्थेषु योगभक्तेरनन्तरम् । सूरिभक्तिर्भवेदष्टौ निषद्यादेहयोरिमाः॥६२ ॥ सिद्धश्रुतयोर्भक्ती श्रुतपंचम्यां तु वाचना। स्वाध्यायः शान्तिभक्त्यन्तमस्य निष्ठापनं ततः॥१३॥ एतत्संन्यासप्रारंभे शान्तिभक्तिर्न हीह तु। श्रुतपंचमीक्रिया स्यादस्य निष्ठापने पुनः॥ ६४॥ महत्यो भक्तयः स्वाध्यायेषु संन्यासगे मुनौ योगभक्तिर्विधातव्या योगग्रहणमोक्षयोः ॥ ६५ सिद्धप्रतिक्रमणनिष्ठितकरणभक्तयः । चतुर्विशतितीर्थेशभक्तिश्च नियमे यतेः॥६६ । पाक्षिकचातुर्मासिकसांवत्सरिककर्मसु । प्रतिक्रमणसंज्ञेषु नियमोक्तक्रियैव तु ॥६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org