SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽधिकारः। साकारसर्वतोभद्रसिंहनिःक्रीडितादयः। साकांक्षस्योपवासस्य भेदाश्चैकान्तरोदयः॥६॥ निःकांक्षोऽसौ भवेद्भक्तप्रत्याख्यानेंगिनीमृतिः । प्रायोपगमनेष्वायुरन्तसंन्यासकर्मसु ॥७॥ देहदर्पविनाशाय संयमद्वयसिद्धये । कुर्यादनशनं लाभसत्कारायनपेक्षया ॥ ८॥ ग्रासहीननिजाहाराङ्नाहाराशनव्रतम् । तपः स्यादवमौदर्यमक्षकक्षदवानलः ॥९॥ उपवासोतिमात्राशनोत्पन्नश्रमदोषहृत् । ध्यानस्वाध्यायनिद्रार्तिजयाद्यर्थमिदं मतम् ॥ १० ॥ वृत्तिर्वाटगृहाऽऽहारपात्रदातृषु वर्त्तनम् । संख्या तन्नियमो वृत्तिपरिसंख्या निजेच्छया ॥११॥ इयमाशानिरासायादीनताभावनाप्तये। गात्रयात्रानिमित्तान्नमात्रकांक्षस्य योगिनः ॥ १२॥ दधिक्षीराऽऽज्यतैलादेः परिहारो रसस्य यः। तपो रसपरित्यागो मधुरादिरसस्य वा ॥ १३ ॥ कायकान्तिमदाक्षेभक्षोभवारणकारणम् । परिहारो रसस्यायं स्याज्जितेन्द्रिययोगिनः ॥ १४ ॥ विविक्तऽध्ययनध्यानबाधकोत्करवर्जिते । शयनं चाऽऽसनं यत्तद्विविक्तशयनासनम् ॥१५॥ तरुकोटरशून्यागाराऽऽरामोऽधरादयः । विविक्ताः कामिनीषण्ढपशुक्षुद्रांगिवर्जिताः ॥ १६ ॥ सुखोपलालितः कायो नाल सद्ध्यानसिद्धये । तद्देहदमनं कायक्लेशः क्लेशैमतोचितैः ॥ १७॥ निर्दयं मर्दनीयोऽयं कायः क्लेशकरः पुरा । चिरं रिपुरितीवैषः कायक्लेशरतो यतिः ॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy