________________
४४
आचारसारे
वीरस्वस्तिकवज्राब्जहस्तिशुण्डासनादयः। व्युत्सर्गः शवगोदंडचापशय्यादयश्च ते॥१९॥ तपो बाह्यमिदं बाह्यलोकानन्दैकमन्दिरम् । आभ्यन्तरतपः क्षीरसागरन्दुं नमाम्यहम् ॥२०॥ तत्प्रायश्चित्तं विनयो वैयावृत्त्यं जगनुतम् । स्वाध्यायो भवेद्वयुत्सर्गो ध्यानं चाभ्यन्तरं तपः॥२१॥ येनागो गलति प्रत्नं प्रायश्चितं तदुच्यते । कर्म प्रायोजनस्तस्य चित्तं चेतोहरं यतः॥२२॥ आलोचनप्रतिक्रमणोभयानि विवेचनम् । व्युत्सर्गस्तपश्छेदमूलपरिहारदर्शनम् ॥ २३ ॥ प्रायश्चित्तस्य भेदाः स्युर्दशैवं तत्र संश्रये। दोषाणां यत्प्रमोदाद्यैराचं तेषां निवेदनम् ॥ २४॥ युग्मम् । ज्ञातश्रुतरहस्याय प्रशान्तस्वान्तवृत्तये। अपरित्राविणे शस्तैकान्तस्थायैव सूरये ॥ २५ ॥ विनयेनोपसृत्योपविश्य पार्श्वे कृतांजुलेः। वालवद्गहतोऽवक्रमित्येतत्स्याद्विशुद्धये ॥ २६॥ युग्मम् । आकंपिताऽनुमापितदृष्टवादरसूक्ष्मगम् ।। छन्नं शब्दाकुलं बह्वव्यक्ततत्सवितान्यपि ॥२७॥ दशेत्यालोचनाऽऽगांसि त्याज्यान्यात्महितैषिणा। सदा हि साधयन्त्यार्याः परलोकममायया ॥ २८॥ युग्मम् । ददात्यल्पं मम प्रायश्चित्तं भीत्यति सूरये । परोपकरणानां यदानमाकंपितं मतम् ॥ २९ ॥ ग्लानः क्लेशासहोऽस्म्यल्पं प्रायश्चित्तं ममार्ण्यते। चेद्दोषाख्यां करिष्यामीत्यादिः स्यादनुमापितम् ॥३०॥ परिरक्षितागः संकीर्तिः स्यादृष्ट बादरं स्मृतम् । स्थूलानामेव दोषाणामालस्याबैनिवेदनम् ॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org