________________
आचारसारे
MARY
प्रोन्मीलन्नवकेवलादिकमलः सन्मार्गसन्मंडनः स्तान्मच्चित्तनभःस्थले स्थिरतमश्चारित्रचण्डद्युतिः ॥१५०॥
नमिर्वरश्रीः प्रणयकभूमि
र्जिनः स नः पातु दयानिधानः। अलं गलत्यार्जितकर्मजालं
यस्येक्षणान्मंक्षु महोदयस्य ॥१५१ ॥ ॥ इति श्रीवीरनन्दिसिद्धान्तिचक्रवर्तिप्रणीते श्रीआचारसारनानि
ग्रन्थे चारित्राचारवर्णनात्मकः पंचमोऽधिकारः ॥ ५॥
अथ षष्ठोऽधिकारः।
- -- वन्दे मुदा श्रीशजिनाभिनन्दनं
शश्वत्पदानम्रसुखाभिनन्दनम् । तपः स्फुरद्वह्निनिमग्नमन्मथं
विनेयसन्दर्शितमुक्तिसत्पथम् ॥ १ ॥ तपः पोतेन येनाऽसौ संसारोरुसरित्पतिः । तीर्यते त्वरयेदानीं तत्तपः प्रतिपाद्यते ॥२॥ तपः प्राहुरनुष्ठानं मानसाक्षनियामकम् । बाह्याभ्यन्तरभेदं तत्प्रत्येकं षड्विधं मतम् ॥ ३ ॥ अनशनावमौदर्ये वृत्तिसंख्यारसोज्झिती। विविक्तशयनासनं कायक्लेशो बहिस्तपः ॥४॥ अशनत्यागोऽनशनं साकांक्षाकांक्षभेदगम् । तदाद्यमेकद्विव्यादिषण्मासानशनान्तगम् ॥ ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org