________________
पञ्चमोऽधिकारः।
स्त्रीसंसक्तवसत्यंगसंस्कारपरिवर्जनम् । चति पंच वदन्त्यार्यास्तुरीयव्रतभावनाः॥६०॥ युग्मम् । क्षेत्रं वास्तु धनं धान्यं द्विपदोंगी चतुःपदः । यानं शय्याऽऽसनं कुप्यं भांडं चेति बिहिर्दश ॥ ६१ ॥ मिथ्यात्ववेदहास्यादि षट्कषायचतुष्टयम् । रागद्वेषौ च संगाः स्युरन्तरङ्गाश्चतुर्दश ॥ ६२ ॥ सचित्ताऽचित्तरूपैतत्संगसंगिपराः परैः। मानासुहान्यतिक्लेशानामुवन्त्यवशाशयाः ॥६३ ॥ या मूर्छाच्छदिनी संगे चेतोवृत्तिरसंगता। यया साऽऽत्यन्तिकी मुक्तिश्रीरुपैति यति स्वयम् ॥ ६४॥ स्वात्माऽभ्यन्तररागाद्या यदि त्याज्याः परिग्रहाः । बाह्यास्तत्त्वादयः किं नासातसन्ततिकारिणः ॥६५॥ सेवातन्द्राः सुरेन्द्राद्याः क्रूरो मारश्च किंकरः। यस्यामद्भुतमाहात्म्यसंगताऽसंगता ततः ॥ ६६ ॥ परिग्रहग्रहोन्मुक्तेरभ्रान्ता स्वान्तसन्ततिः। निजानंदामृतामन्दस्यन्दिनी कैर्न वर्ण्यते ॥६७ ॥ स्यान्मनोज्ञामनोज्ञाक्षपंचकार्थेषु वर्जनम् । भावनापंचकं रागद्वेषयोरपरिग्रहे ॥ ६८॥ महान्तमर्थ मोक्षं यत् साधयन्ति महान्ति तत् । व्रतान्याचरितानीति वा महद्भिः सुधीधनैः॥६९ ॥ व्रतत्राणाय कर्त्तव्यं रात्रिभोजनवर्जनम् । सर्वथान्नान्निवृत्तिस्तत्प्रोक्तं षष्ठमणुव्रतम् ॥ ७० ॥ रात्रिभुक्तौ व्रतानां स्यान्नाशः शंका च तत्क्षये। प्राणितस्याऽऽत्मनो हानिरकयङ्गविषसंगमात् ॥७१॥ ईर्याभाषेषणादाननिक्षेपोत्सर्गकर्मसु। संयत्नादितयः पंचवृत्तयः समितिप्रथाः ॥७२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org