________________
आचारसारे
AAAAKARAJARAMAAAAnantarnak
सार्दी कर्दमशेवालजलपुष्पफलाविलाम् । इलां त्यक्तांकुरानीकप्राणिबीजव्रजाकुलाम् ॥ ७३ ॥ काष्ठेष्टकाष्मलोष्ठादिकृतवर्माऽसमं चलं। त्यत्तवा संशयितं चात्मपातासंयमहेतुकम् ॥ ७४ ॥ मार्ग रथाश्वगोयूथनरादिचरणाहतिः । प्रासुकेऽपगताऽऽयातप्राणिप्रालेयजालके ।। ७५ ॥ प्रभाकरकरवातस्पष्टज्ञेयार्थसार्थिनी। योगिनस्तीर्थयात्रात्मगुरुकार्यादिभागिनः ॥ ७६ ॥ स्थित्वा कार्यवशान्मन्दं मृगवद्दिग्विलोकिनः । पुरो युगान्तरे प्राणिवीक्षणार्पितचेतसः ॥ ७७ ॥ मन्दं न्यस्तपदापास्तद्रुतातीवविलंबिनः । द्विपेन्द्रमन्दयानस्य स्यादीर्यासमितितिः॥ ७८॥ षट्रम् । सत्यमोषोभयासत्यमोषभेदाच्चतुर्विधा। भाषाद्या सत्यबोधार्थवाग्घटे घटवाग्यथा ॥ ७९ ॥ मोषभाषा विपर्यासव्यवसायार्थगोचरा। यथा मरीचिकाचक्रे वाक्सिाऽनेकभेदगा ॥ ८ ॥ धमैर्विवक्षितैः सत्येऽसत्ये चार्थविवक्षितैः । वाक् प्रवृत्तोभयाख्या सा भाषेतीहेष्यते यथा ॥ ८१ ॥ घटाकृतिव्यपेताया धारणाद्भरि वारिणः । कुंडिकाया घटाख्यैवं बहुभेदमिदं वचः ॥ ८२॥ युग्मम् । आमंत्रणामाज्ञापनं याश्चावाक् प्रच्छनावचः । प्रज्ञापनावचः प्रत्याख्यानसंशयभाषणम् ॥ ८३ ॥ इच्छाऽनुलोमवचनमनक्षरमयं वचः। इत्येवमादयः सत्यमोषभेदाः सहस्रशः॥ ८४॥ तत्रामंत्रणमन्यस्य परत्राऽऽसक्तचेतसः। आभिमुख्यकरं हंहो नरेन्द्रेत्यादिकं वचः॥८५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org