________________
आचारसारे
जिह्मान्तःकरणो ब्रह्मा निजपुत्रीमपत्रपः । जगाम किल येनार्द्धनारीत्वं च महेश्वरः॥ ५० ॥ गोविन्दो मन्दधीः प्रीत्या गोपपत्न्या गृहं गतः। तयाऽपि च किलात्यन्तं चतुरोक्त्या प्रतारितः ॥ ५१ ॥ किञ्च । ब्रह्मा जिहितसन्मतिर्बहुमुखः काष्ठेक्षणाद्भतितः
पार्वत्यास्तनुसंप्रवेशविवशश्चार्दोगनारी हरः । विष्णुर्वारिधिमध्यगो गतधृतिस्तद्दीनिद्रोऽभवत्
त्रैलोक्योन्मथनोत्थमन्मथविभोर्मन्ये शरादुर्धरात् ॥५२॥ मारापराभिधानेनाब्रह्मणाऽन्येऽपि तादृशाः। जाता विडम्बनापात्रमिदं चित्रं हि नो यतः ॥ ५३॥ कादम्बरीरसोन्मादं वा हिताहितमोहितम् । त्रिवेदोदीरणाभ्रान्तस्वान्तं तद्वदिदं जगत् ॥५४॥ किञ्च । श्रुत्वाऽऽलोक्य न सीधु माद्यति जनः स्पृष्टा च माद्यत्यदः
पीत्वैव श्रवणेक्षणानुभवनैः कान्ताजनानां पुनः । लोको मुह्यति चित्रमत्र तु परं प्रभ्रष्टदृष्टिश्रुति
स्त्यक्त्वा सत्त्वगुणं नयं च विनयं स्यादुर्मतिर्दुर्गतिः॥ ५५॥ वेदाऽतुच्छोदयादिच्छा पुंस्त्रीतद्वयसंश्रया। स्त्रीपुंनपुंसकानां स्यादब्रह्मैकाकिनामपि ॥५६॥ तेनानुन्मथितं चेतो यत्तद् ब्रह्मव्रतं स्मृतम् । व्रतव्रातलतामूलं मूलं स्वर्गापवर्गयोः ॥ ५७॥ यन्माहात्म्यान्महाविद्या सेवोद्या वा वसन्त्यलम् । जनेऽप्यसंयते यच्च नाम्ना देवव्रतं मतम् ॥ ५८॥ स्त्रीणां रागकथांगावलोकनादरयोः स्मृतिः। त्यागः पूर्वं रतस्योच्चैर्वृष्येष्टस्य रसस्य च ॥ ५९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org