SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २० सागरधर्मामृते विषयो यस्यासौ प्रारब्धदेशसंयमः श्रावकधर्मस्वीकारपर इत्यर्थः। तथ: भवति । कोऽसौ, नैष्टिकः निष्ठया चरति तत्र वा भवः । किंविशिष्टः, तनिष्ठः तत्र धर्मे निष्ठा निर्वहणं यस्यासौ घटमानदेशसंयमो निरतिचारश्रावकधर्मनिर्वाहपर इत्यर्थः । तथा भवति । कोऽसौ, साधकः समाधिमरणं साधयतीति साधकः । किंविशिष्टः, स्वयुक् स्वस्मिन्नात्मनि युक् समाधिर्यस्यासौ निष्पन्न - देशसंमय आत्मध्यानतत्पर इति भद्रम् ॥ २० ॥ इत्याशाधरविरचितायां स्वोपज्ञधर्मामृत सागारधर्मदीपिकायां भव्यकुमुदचंद्रिकासज्ञायामादितो दशमः प्रक्रमाच्च प्रथमोऽध्यायः । - द्वितीयोऽध्यायः। एवं सागारधर्मं सूचयित्वा पाक्षिकाचारं प्रपञ्चयितुकामः प्रथमं तावद्या-- दृशस्य भव्यस्य सागारधर्माभ्युपगमो धर्माचार्यैरभ्यनुज्ञायते तादृशं तं. दर्शयन्नाह त्याज्यानजस्रं विषयान् पश्यतोऽपि जिनाज्ञया। मोहात्त्यक्तुमशक्तस्य गृहिधर्मोऽनुमन्यते ॥ १॥ टीका-अनुमन्यते क्रियतामित्यनुज्ञायते धर्माचार्यैः । कोऽसौ, गृहिधर्मः कस्य, अशक्तस्य असमर्थस्य । किं कर्तु, त्यक्तुं। कान् , विषयान् इष्टकामिन्यादीन् । कस्मात्, मोहात् प्रत्याख्यानावरणलक्षणचारित्रमोहोदयोद्रेकात् । किं कुर्वतोऽपि, पश्यतोऽपि प्रतिपद्यमानस्य, न पुनरनन्तानुबन्धिरागादिपरतंत्रवसेव्यतयाऽभ्युपगच्छत इत्यपिशब्दार्थः। कान्, विषयान् । किंविशिष्टान्, त्याज्यान असेव्यान् । कथम्, अजस्रं शश्वत् । कया, जिनाज्ञया वीतरागसर्वज्ञानल्लंघ्यशासनेन सम्यग्दर्शनशुद्धस्य सत इत्यर्थः । इदमत्र तात्पर्य, एकदेश १ विषयविषमाशनोत्थित-मोहज्वरजनिततीव्रतृष्णस्य । निःशक्तिकस्य भवतः प्रायः पेयाद्युपक्रमः श्रेयान् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy