________________
प्रथमोध्यायः ।
,
धर्माद्यर्थमित्येवम्प्रकारेण सङ्कल्पेन धर्मार्थं देवतार्थं मन्त्रसिध्द्यर्थमौषधार्थमाहारार्थं वा प्राणिघातं न कुर्यामिति प्रतिज्ञाय । अ हि मन्दकषायोऽपि गृहवाससेवनरतत्वेन प्रवर्तितारम्भत्वादनारम्भजामेव साङ्कल्पिकीं हिंसां परिहर्तुं शक्नोति न पुनरारम्भानुषङ्गिणीम् तस्या गृहिणोऽवश्यम्भावात् । क्व पक्षः स्यात्, इह एतेषु पक्षादिषु मध्ये । तथा भवेत् । काऽसौ, चर्या दर्शनिकादारभ्यानुमतिविरतं यावदुपासकाचारः । कस्य गृहिणः । किं कुर्वतः, उज्झतस्त्यजतः । किं तत् गृहं । किं कृत्वा, न्यस्य स्थापयित्वा । कं, निजान्वयं स्वं पोष्यवर्गं धनं धर्म्यं च । क्क, सूनौ पुत्रे । तदसम्भवे तत्तुल्ये वंश्येऽपि । किं कृत्वा, विशोध्य विधिपूर्वकं प्रायश्चित्तेन शास्त्रोक्तविधानेन निराकृत्य । कं, दोषं हिंसादिकं । किंविशिष्ट, मुदितं कृष्यादिद्वारेणोत्पन्नं । कथमथो, पक्षसँस्कारानन्तरं वैराग्यपरिणामे प्रत्यहमारोहति सतीत्यर्थः । तथा भवेत् । किं तत् साधनं । किं, शोधनं शुद्धी रागादिदोषापनयनं । कस्य, आत्मनः चिद्रूपस्य । कया, ध्यात्या ध्यानेन । किं विशिष्टया, विशदया शुद्धया । कस्मात्, अन्नेहतनूज्झनात् अन्नं चाहारः ईहश्च शरीरचेष्टा तनुश्च शरीरमन्नेहतनवस्तासामुज्झनं नियतकालं यावज्जीवं च यथोचितं परित्यागस्तस्मात्। क्व,अन्ते गृहत्यागावसाने मरणे चासन्ने । 'तु'शब्दादुदितं दोषं विशोध्येत्यनुवृत्यात्रापि योज्यम् ||१९||
इदानीं पक्षादिकल्पनाद्वारेण कृतावतारान् श्रावकस्य त्रीन् प्रकारानुद्दिश्य संक्षेपेण लक्षयन्नाह
पाक्षिकादिभिदा त्रेधा श्रावकस्तत्र पाक्षिकः । तद्धर्मगृह्यस्वनिष्ठो नैष्ठिकः साधकः स्त्रयुक् ||२०||
टीका - भवति । कोऽसौ, श्रावकः । कतिधा, त्रेधा त्रिविधः । कया, पाक्षिकादिभिदा पक्षेण चरति दीव्यति जयति वा, पाक्षिकः आदिर्यस्यासौ पाक्षिकादिः, पाक्षिको नैष्ठिकः साधकश्चेति स एव तेन वा भिद् भेदो विकल्पकथनं पाक्षिकादिभिद् तया । तानेव लक्षणतो दर्शयति- तत्रेत्यादि, तत्र तस्यां पाक्षिकादिभिदि । भवति । कोऽसौ, पाक्षिकः । किंरूपः, तद्धर्मगृह्यः तस्य श्रावकस्य धर्म एकदेशहिंसाविरतिरूपं व्रतं गृह्यं पक्षः प्रतिज्ञा
Jain Education International
१९
For Private & Personal Use Only
www.jainelibrary.org