________________
अष्टमोध्यायः ।
महाव्रतमर्थयमानस्यार्यस्याचेलक्यलिङ्गविधानार्थमाह
संस्तरारोहणकाले
त्रिस्थान दोषयुक्तायाप्यापवादिकलिङ्गिने । महाव्रतार्थिने दद्यालिङ्गमौत्सर्गिकं तदा ॥ ३५ ॥
२१५
टीका - दद्याद्वितरेत् निर्यापकाचार्यः । किं तल्लिंगं अचेलक्यादि चतुर्विधं । किंविशिष्ट मौत्सर्गिकं उत्सर्गे सकलपरिग्रहत्यागे भवं नाग्न्यमित्यर्थः । क्क, तदा संस्तरारोहणकाले । कस्मै, आपवादिकलिङ्गिने सग्रन्थलिङ्गाय आर्यायेत्यर्थः । किंविशिष्टाय, त्रिस्थानदोषयुक्तायापि त्रिस्थानेषु दोषो वृषणयोः कुरण्डलीतिलम्बमानत्वादिर्मेहने च चर्मरहितत्वातिदीर्घत्वासकृदुत्थानशीलत्वादिस्तेन सहितायापि । पुनः किंविशिष्टाय, महाव्रतार्थिने महाव्रतं याचमानाय ॥ ३५ ॥ उत्कृष्टस्यापि श्रावकस्योपचरितायापि महाव्रतायाप्रभुत्वमाह
कौपीनेऽपि समृच्छत्वान्नाहित्यार्यो महाव्रतम् ।
अपि भाक्तममूच्र्छत्वात् साटकेऽप्यार्यिकाऽर्हति ॥ ३६ ॥ टीका - नार्हति न गृहीतुमुचितो भवति । कोऽसावार्यः परमोत्कृष्टश्रावकः । किं तन्महाव्रतं । किंविशिष्टमपि, भाक्तमुपचरितमपि । कुतः समूच्छेत्व:न्ममेदमितिग्रहाविष्टत्वात् । क्क, कौपी गुह्यप्रच्छादनवस्त्रखण्डमात्रे । अि विस्मये । आर्यिका पुनरर्हति । भाक्तमेव महाव्रतं । कस्मादमूर्च्छत्वात् । क साकेऽपि । संस्तरारोहणकालादन्यदातनमेतद्विधानं प्रसङ्गादन्वाख्यातम् ॥३६॥ प्रशस्तमुष्कमेहनस्य सर्वस्य सर्वत्र प्रशस्तमौत्सर्गिकमपवदन्नाह—
Jain Education International
#
ही मान्महर्द्धिको यो वा मिथ्यात्वप्रायबान्धवः । सोऽविविक्ते पढ़े नाग्न्यं शस्तलिङ्गोऽपि नार्हति ॥ ३७ ॥ टीका - स श्रावको नार्हति । किं तन्नाग्न्यं नग्नत्वं । क, पदे स्थाने किंविशिष्टे, अविविक्ते बहुजने । एकान्तस्थाने सोऽप्यर्हतीत्यर्थः । किंविशिष्टोsपि, शस्तलिङ्गोऽपि लिङ्गं पुंस्त्वचिह्नं मुष्कमेहनमित्यर्थः शस्तं प्रशस्तं प्रागुक्तदोषवियुक्तं लिंग यस्य स शस्तलिंगः । यः किं, यो व्हीमान् । लज्जावान् । महर्द्धिकः श्रीमान् । मिथ्यात्वप्रायबान्धवो वा भवति । मिथ्यात्वं प्रायेण बाहुल्येन येषां ते मिथ्यात्वप्राया बान्धवा ज्ञातयो यस्य स तथोक्तः ॥ ३७ ॥
For Private & Personal Use Only
www.jainelibrary.org