________________
२१४
सागारधर्मामृते
क्षमणकरणाकरणयोः फलमाह - तीर्णो भवार्णवस्तैर्ये क्षाम्यन्ति समयन्ति च ।
क्षाम्यन्ति न क्षमयतां ये ते दीर्घाजवजवाः ॥ ३२ ।। टीका-तैः पुम्भिः । ती! लघितः । कोऽसौ, भवार्णवः संसाराब्धिः । ये किं, ये क्षाम्यन्ति विराधकाय क्षमां कुर्वन्ति । ये च क्षमयन्ति विराद्धं क्षमां कारयन्ति । ये पुनः न क्षाम्यन्ति । केषां क्षमयतां क्षमां कारयतां ! ते भवन्ति । किंविशिष्टा, दीर्घाजवञ्जवाः चिरसंसाराः ॥३२॥ क्षपकस्यालोचनाविधिमाह
योग्यायां वसतो काले स्वागः सर्व स मृरये। निवेद्य शोधितस्तेन निःशल्यो विहरेत्पथि ॥ ३३ ॥ टीका-विहरेत् प्रवर्तेत । कोऽसौ, सः क्षपकः । क्व, पथि रत्नत्रये । किंविशिष्टः सन् , निःशल्यो मायादिशल्यरहितः । कथम्भूतो भूत्वा, शोधितः प्रतिक्रमणेन प्रायश्चित्तादिविधिना निष्कासितदोषः । केन, तेन का। किं कृत्वा, निवेद्य आलोच्य । किं तत्स्वागः आत्मनो व्रतादावतीचारं। किंविशिष्टं, सर्व। कस्मै, सूरये निर्यापकाचार्याय । क्व, वसतौ स्थाने। किंविशिष्टायां, योग्यायां आलोचनोचितायां । तथा कालेऽपि योग्ये ॥ ३३ ॥ संस्तरारोहणविधिमाह
विशुद्धिसुधया सिक्तः स यथोक्तं समाधये ।
प्रांगुदग्वा शिरः कृत्वा स्वस्थः संस्तरमाश्रयेत् ॥३४॥ टीका-आश्रयेत् आरोहयेत्सः । कं, संस्तरं। किंविशिष्टं, यथोक्तं येन प्रकारेणागमे कथितं । कस्मै, समाधये समाधिनिमित्तं । किंविशिष्टः सन्, स्वस्थः निाक्षेपः । किं कृत्वा, कृत्वा । किं तच्छिरः शीर्ष । क, प्राक् पूर्वस्यां दिशि । उदग्वा उत्तरस्यां । कथम्भूतो भूत्वा, सिक्तो निर्वापितः ।। कया, विशुद्धिसुधया विशुद्धिर्मनःशरीरनैर्मल्यं प्रायश्चित्तविधानं वा सैक सुधा अमृतं तया ॥ ३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org