________________
९४
अनगारधर्मामृते
कथं कृत्वा ? अव्यथं निर्बाधम् । तथा संतन्यताम् अविच्छिन्नमाश्रीयताम् । कोसौ ? स देशः समवसरणचैत्यालयादिः । कैः ? शुभैः कल्याणैः । तथा प्रतपतु अव्याहतशक्तिर्भूयात् । कोसौ ? स कालोधपुद्गलावर्तादिः जिनजन्माभिषेकनिःक्रमणादिर्वा । कथम् ? प्रततं सततम् । तथा नन्दतु समृद्धी भूयात् । कोसौ ? स भावोऽधःप्रवृत्तकरणादिः । कथम् ? सदा । यदनुग्रहेण येषां द्रव्यादीनामतिशयाधानेन प्रस्रौति प्रक्षरत्याविर्भावयति । कासौ ? आप्तगवी परापरगुरूणां गौर्वाक् । काम् ? तत्वरुचिं तत्त्वस्य परापरवस्तुयाथाल्यस्य रुचिः श्रद्धानं विपरीताभिनिवेश विविक्तात्मनः स्वरूपं, न स्विच्छालक्षणं, तस्योपशान्तकषायादिषु मुक्तात्मसु चासंभवात् । कस्य ? नरस्य जीवस्य । यथा मनुष्यस्याप्तप्रत्ययिता गौरनड्वाही योग्यद्रव्याद्यनुग्रहात् क्षीरं प्रस्त्रौतीति श्लेषोपमाच्छायालंकारः। परमाप्तलक्षणमाहमुक्तोष्टादशभिदोंपैर्युक्तः सार्वज्ञसंपदा ।
शास्ति मुक्तिपथं भव्यान् योसांवाप्तो जगत्पतिः॥१४॥ दोषैः । ते यथा
क्षुधा तृषा भयं द्वेषो रागो मोहश्च चिन्तनम् । जरा रुजा च मृत्युश्च स्वेदः खेदो मदो रतिः ॥१॥ विस्मयो जननं निद्रा विषादोऽष्टादश ध्रुवाः । त्रिजगत्सर्वभूतानां दोषाः साधारणा इमे ॥२॥ एतैर्दोषैर्विनिर्मुक्तः सोयमाप्तो निरंजनः। विद्यते येषु ते नित्यं तेत्र संसारिणः स्मृताः ॥३॥ एतेनापायापगमातिशय उक्तः । सार्वज्ञसंपदा-सार्वज्ञे अनन्तज्ञानादिचतुष्टयलक्षणायां जीवन्मुक्तौ सति, संपत् समवसरणाष्टमहाप्रातिहार्यादि विभूतिः, तया । एतेन ज्ञानातिशयः पूजातिशयश्चोक्तः। शास्तीत्यादि । एतेन वचनातिशय उक्तः । एवमुत्तरत्रापि बोध्यम् । असावाप्तः स्यात् । किंविशिष्टः ? जगत्पतिस्त्रैलोक्यनाथः । यः किम् ? यः शास्ति । कान् ? भव्यान् । कम् ? मुक्तिपथम् । किंविशिष्टः सन् ? मुक्तस्त्यक्तः। कैः ? दोषैः । कतिभिः ? अष्टादशभिः । पुनः किं विशिष्टः ? युक्तः सहितः । कया ? सार्वज्ञसंपदा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org